Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.5
- Language
- English
v3.c24.s55.5
स्थापयेत्स्थावरे गौरीं तथा जङ्गममेव च ।
गौरीं च पार्वतीं चैव मनोमन्थां(न चन्मादिनीं)मद्य वच्यते ॥ ५५ ॥
चतुर्भुजां त्रिनेत्रां च जटामकुतमण्डिताम् ।
समपदस्थानकं (कां) देवीं दशतालेन मानयेत् ॥ ५६ ॥
दक्षिणे चाभयं पूर्वे वरदं वामहस्तके ।
अपरे दक्षिणे चाब्जं वामहस्ते तु चोत्पलम् ॥ ५७ ॥
श्वेतरक्तं च वर्णं वा श्यामवर्णाङ्गशोभित(तां)म् ।
कंचित्तु कुन्तलनिभं तुङ्गं मकुटं कुन्तलं तु वा ॥ ५८ ॥
वामे बालशशिं (शिनं) कुर्यादवामे तुरगा (गम) न्वितम् ।
दुकूलवसनोपेतं (तां) सर्वाभरणभूषित(तां) म् ॥ ५६ ॥
तदेव वृषमाश्रित्य पृष्ठे देवी त्रिभागिकम् ।
दक्षिणं स्वस्तिकं पादं वामपादं च कुञ्चितम् ॥ ६० ॥
पुरतो वामहस्ताग्रं (ग्रे) शिरस्यो (स ङ) परि विन्यसेत् ।
शेषं तु पूर्वं [वद्] देवीं च चोत्पलं वासनाभयम् ॥ ६१ ॥
तदेव परहस्तौ च वामे रक्ताब्जधारिणीम् ।
दक्षिणे चाक्षमाला(लां) च कुर्यात्प्रोक्तं पुरातनैः ॥ ६२ ॥
एवं मनो(न ङ)न्मनीं शक्त्या (क्तिं) स्थापयेच्छिवहर्म्यके ।
वाराही चैव कौमारी चामुण्डी भैरवी तथा ॥ ६३ ॥
माहेन्द्री वैष्णवी चैव ब्रह्माणी सप्तमातरः ।
एतेषां (तासां) सर्वशक्तीनां नवतालेन कारयेत् ॥ ६४ ॥
भद्रपीठोपरि स्थाप्यमा (प्या चा) सने सप्तमातरः ।
शयने दक्षिणे पादान् वामपादान्प्रलम्बयेत् ॥ ६५ ॥
चतुर्भुजं (जां) त्रिनेत्रैश्च सर्वाभरणभूषितीम् ।
चामुण्डी चैव रुद्राणी तानि (सा च) शक्तिः त्रि (त्रि) लोचनी ॥ ६६ ॥
ब्रह्माणी चैव रुद्राणी जटामकुटमण्डिती (ते) ।
वाराही पोत्रवक्त्री स्यात् किरीटमकुटान्वित (ता) म् ॥ ६७ ॥
कौमारी करण्डमौळी च किरीटी (टिनी) वैष्णवी तथा (च) ।
चामुण्डी ज्याल (जटा) मौळी च भैरवी पिंगरालका [म्] ॥ ६८ ॥
Linked texts (1)
- Camundi — Old Javanese