Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.4

Language
English

v3.c24.s55.4

मानयेद् दशतालेन सर्व शेषं तु पूर्ववत् ।
मकरकुण्डलसंयुक्तां सर्वाभरणभूषिताम् ॥ ४१ ॥
भूशक्तिकलक्षं प्रोक्तं गौरीलक्षणमुच्यते ।
द्विभुजं(जां) च द्विनेत्रं (त्रां) च कुर्यादासनं (ने) स्थानकं(के) तु वा ॥ ४२ ॥
करण्डं केशबन्धं वा कुन्तलं मकुटं भवेत् ।
दक्षिणे चोत्पलं वामे वरदं स्थानमेव वा ॥ ४३ ॥
अथवा लम्बहस्तं स्याद् गोवालाकारवद् भवेत् ।
दुकूलवसनोपेतां पीताम्बरधरामेव वा ॥ ४४ ॥
दीर्घबाहुं विशालाक्षीं श्यामवर्णा महोदराम् ।
स्तनतटोत्तुङ्ग (ङ्गा) विस्तीर्णश्रोनि(णि) देशोद्भवा भवेत् ॥ ४५ ॥
कटि चोरु विशालं स्यान्मध्यकञ्चीनलम्बवत् ।
विशालास्य (लमास्यं) सुघोणं तुङ्गतुण्डं स्मिताननम् ॥ ४६ ॥
चन्द्ररेखावतंसं स्याद् भ्रमरावृतमालिकम् ।
अथवा फालपट्टं स्यात्कर्णयोर्ग्राहकुण्डलो ॥ ४७ ॥
कर्णपुष्पैश्च दामं (म) स्याद्धेमसूत्रं सुमङ्गलो ।
हारोपग्रीवसंयुक्तां बाहुमालाविभूषिताम् ॥ ४८ ॥
कटकं कटिसूत्रं स्यात्केयूरपुरिमन्वितम् ।
रक्तांशुकोत्तरीयं स्यान्मौक्तिकोत्तरीयमेव च ॥ ४९ ॥
प्रकोष्ठवलयं चैव वलयैर्मणिवन्धकैः ।
भुजङ्गकटकाङ्गुष्ठौ पादनूपुरसंयुतम् ॥ ५० ॥
सर्वाङ्गुले(ल्य) ग्रवज्ज्ञात्वा कुर्याद्रक्ताङ्गुलीयकैः ।
दक्षिणे कुञ्चितं पादं वामपादं तु लम्बितम् ॥ ५१ ॥
पुष्पं च वरदं स्थाने हस्तं वामेऽथ चासने ।
दक्षिणं स्वस्तिकं पादं वामादन्तकरान्तकम् ॥ ५२ ॥
कुञ्चितं वामपादं स्याद् दक्षिगं कुञ्चितं तु वा ।
पुष्पधृक् लम्बहस्तं स्यात्स्थानकं च त्रिभागिकम् ॥ ५३ ॥
मानयेदङ्गमानं च मध्यमं दशतालके ।
लिङ्गस्य वामपार्श्वं तु विमहार्या तु वामके ॥ ५४ ॥