Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.1
- Language
- English
v3.c24.s60.1
अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात् ।
पादं चतुर्विधं प्रोक्तं तद्दशान्मानं गृह्यते ॥ १ ॥
प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यते ।
सारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥ २ ॥
भक्तिज्ञानं च वैराग्यं(ग्य)युक्तं सालोक्यमीरितम् ।
ज्ञानं वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥ ३ ॥
केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम् ।
शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवित् ॥ ४ ॥
उत्तमं(म)नवतालेन सालोक्याङ्गं प्रमीयते ।
अधमं(म)दशतालेन सामीप्याङ्गाङ्ग(ङ्गं च) निर्मितम् ॥ ५ ॥
मध्यमं(म)दशतालेन सारूप्यं मानयेत्सुधीः ।
उत्तमं(म)दशतालेन सायुज्यं कथितं बुधैः ॥ ६ ॥
एवं क्रमेण भक्तानां तालमानं प्रवक्ष्यते ।
उष्णीषात्पादपर्यन्तं भावोत्तरशतांशकम् ॥ ७ ॥
उष्णीषं तु चतुर्मात्रं नेत्रान्तं तु युगाङ्गुलम् ।
पुटान्तं वेदमात्रं स्यात्तत्समं हनुसीमकम् ॥ ८ ॥
कर्णों(ण्ठो)षं वेदमात्रं स्याद् भद्रकाष्ठद्वयान्तकम् ।
हृदयं(यान)नाभिसीमान्तं नाभेर्भेदं तु सीमकम् ॥ ६ ॥
तत्समं भानुभागं स्यादोरुदीर्घं(दैर्घ्यं) मुखद्वयम् ।
जानु कर्णं(ण्ठ)समं कुर्याज्जङ्घा चोरुतुल्यकम् ॥ १० ॥
पादं जानुसमोच्चं स्यादेवमुत्तुङ्गं मापयेत् ।
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तलं षोडशमात्रकम् ॥ ११ ॥
Linked texts (1)
- Mānasāra — Sanskrit