Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.2

Language
English

v3.c24.s60.2

चतुर्विंशतिमात्रं स्याद्वाहुदीर्घं(दैर्घ्यं) प्रशस्यते ।
कूर्परं च द्विमात्रं स्यात्प्रकोष्ठा(ष्ठम)द्वादशाङ्गुलम् ॥ १२ ॥
मध्याङ्गुल्यग्रसीमान्तं तलं द्वादशमात्रकम् ।
रुद्रांशं मुखतारं स्याद् गलतारं युगद्वयम् ॥ १३ ॥
तत्समं बाहुमूलं स्याज्जानुविस्तारं तत्समम् ।
बाहुप ॑न्तविस्तारं षट्त्रिंशाङ्गुलकं तथा ॥ १४ ॥
कक्षयोरन्तरं तारं विशमात्रं प्रशस्यते ।
मध्योदरतारं च पञ्चा(चा) दशाङ्गुलं भवेत् ॥ १५ ॥
श्रोणिदेशविशालं स्यात्सप्ता(प्त)दशाङ्गुलं भवेत् ।
नवाधिक्यं दशाङ्गुल्यं कटिदेशविशालकम् ॥ १६ ॥
ऊरुमूलविशालं तु सार्ध(र्ध) द्वादशाङ्गुलं भवेत् ।
जङ्घामूलविशालं तु सार्धसप्ताङ्गुलं तथा ॥ १७ ॥
जङ्घामध्यं षडङ्गुल्यं विस्तारं तु युगाङ्गुलम् ।
नलकागुल्फविस्तारं सत्रिपादाङ्घ्रिमात्रकम् ॥ १८ ॥
सार्धवेदाङ्गुलं पार्ष्णि विस्तारं परिकीर्तितम् ।
षड्भागिकं च पञ्चांशं प्रपदं विस्तृतं भवेत् ॥ १६ ॥
तला(ल) तारं शराङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम् ।
द्विमात्रं तत्रविस्तारं ताराधं नखविस्तृतम् ॥ २० ॥
तर्जन्या(न्य) ङ्गुष्ठतुल्यं दीर्घं(दैर्घ्यं) विस्तारमंशकम् ।
ऽङ्गुलं सार्धपञ्चांशं ङ्गुलं च क्रमेण वै ॥ २१ ॥
मध्यमादि कनिष्ठान्तं दीर्घ(दैर्घ्य) मेवं प्रशस्यते ।
विस्तारं सप्तषट्पञ्चयवमानमुदीरितम् ॥ २२ ॥
तदर्थ च तदर्थं च नखविस्तारमुच्यते ।
बाहुमध्यविशालं तु सप्तांशं कूर्परं तथा ॥ २३ ॥
वेदाङ्गुलं प्रकोष्ठं च मणिबन्धं त्रिय(त्रया)ङ्गुलम् ।
षडंशं तलमूलं चाम्रं तारं युगाङ्गुलम् ॥ २४ ॥
तलदीर्घं(दैर्घ्यं) षडङ्गुल्यं शेषांशं मध्यमाङ्गुलम् ।
सार्धपञ्चाङ्गुलं दीर्घ तर्जन्यनामिकाद्वयम् ॥ २५ ॥