Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.4

Language
English

v3.c24.s60.4

मध्याङ्गुल्यग्रसीमन्तं सार्धभाश्वंशकं ततम् ।
सार्धरुद्रांशं वक्त्रं च(ह्रस्व) विस्तारं परिकीर्तितम् ॥ ४० ॥ 80
गळतारं सार्धमष्टांशं बाहुजानु च तत्समम् ।
षट्पद्साधिकभागं स्याद्वाहुपर्यन्तविस्तृतम् ॥ ४१ ॥
सार्धविंशतिमात्रं स्यात्कचान्तरमुदाहृतम् ।
सार्धपञ्चा(चा)दशाङ्गुल्य(लं) मध्योदरविशालकम् ॥ ४२ ॥ 84
सार्धमष्टादशाङ्गुल्यं(लं) श्रोणिदेष(श) विशालकम् ।
एकोनविंशतिभागं कटिविस्तारमिष्यते ॥ ४३ ॥
सार्धद्वादशमात्रं स्यादूरुमूलविशालकम् ।
जङ्घामध्ये तु विस्तारं सार्धषड्व्यङ्गुलं भवेत् ॥ ४४ ॥ 88
नलकान्तर(कतारं) युगाङ्गुलं गुल्फतारं शराङ्गुलम् ।
प्रपदं तु षडङ्गुल्यं(लं) वेदांशमङ्गुष्ठदीर्घकम् ॥ ४५ ॥
तत्समं तर्जनीदीर्घ(दैर्घ्यं) मर्थाङ्गुलविहीनकम् ।
अन्याङ्गुली च(र्नां) दीर्घं(दैर्घ्यं) स्याद् विस्तारं तत्समूहताम् ॥ ४६ ॥ 92
कूर्परस्य तु विस्तारं सार्धषड्व्यङ्गुलं भवेत् ।
प्रकोष्ठतारं शराङ्गुल्यं मणिवन्धं युगाङ्गुलम् ॥ ४७ ॥
तलतारं शराङ्गुल्यं तत्तद्दीर्घं(दैर्घ्यं) सप्तमात्रकम् ।
मध्याङ्गुलायतं सार्धपञ्चमात्रं प्रशस्यते ॥ ४८ ॥ 96
तर्जन्यायामदीर्घं(दैर्घ्यं) स्याद्वाष्टांशं तत्प्रकल्पयेत् ।
सार्धवह्य(ह्य)ङ्गुलं दीर्घं(दैर्घ्यं) कनिष्ठाङ्गुष्ठयोस्तथा॥ ४९ ॥
श्रोत्रदीर्घं(दैर्घ्यं) युगाङ्गुल्यं नालालम्बनं तत्समम् ।
अन्यान्यनुक्तसर्वाङ्गम(ङ्गान्यु)त्तमं(म)दशतालवत् ॥ ५० ॥ 100
कारयेच्छिल्पिभिः कुर्यात्तत्र दोषो न विद्यते ॥ ५१ ॥