Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s60.3

Language
English

v3.c24.s60.3

सार्धद्व्यङ्गुलं दीर्घं (दैर्घ्यं) कनिष्ठाङ्गुष्ठयोस्तथा ।
अंशकं षड्यवं सप्त षड्यवं [च] तुर्यवं भवेत् ॥ २६ ॥
अङ्गुष्ठादिकनिष्ठान्तं विस्तारं परिकीर्तिम् ।
स्थूलमूल (लं) कृशाग्रं तु ऽ(चो)त्तमानेन योजयेत् ॥ २७ ॥
अग्रे च त्रित्रिभागेन नखतारं प्रशस्यते ।
त्रिचतुर्भागमाधिक्यं नखायाममुदाहृतम् ॥ २८ ॥
एकद्वित्रियवं वापि नखाग्रं कारयेत्सुधीः ।
अङ्गुष्ठे च द्विपर्वं (र्व) स्यात्त्रिपर्वं (वं) चान्यचाङ्गुलैः (लेषु) ॥ २९ ॥
ज्ञानरेखादिरंखै (खा)श्च कुर्यात्तु तलमध्यमे ।
केशान्तं (न्ता) दचसूत्रान्तं द्वयोर्मध्ये ध्रुवः स्थितिः ॥ ३० ॥
अक्षायाम (मं) द्व्यङ्गुल्यं तदधं तस्यविस्तृतम् ।
कर्णायमं युगाङ्गुल्यं कर्णनालं तु तत्समम् ॥ ३१ ॥
विस्तारं द्व्यङ्गुलं प्रोक्तं शेषमूह्यं विचक्षणः ।
नवतालोत्तमं प्रोक्तं शेषं च दशतालवत् ॥ ३२ ॥
सद्विर (द्विगुणा) दशामं भागं द्वितीये च पदं तथा ।
पादादुष्णीषसीमान्तं कन्यसपङ्क्तितालवत् ॥ ३३ ॥
दुष्णीषात्केशपर्यन्तमुत्तुङ्गं वेदमात्रकम् ।
तस्मान्नेत्रं तु सूत्रान्तं सार्धवेदाङ्गुलं भवेत् ॥ ३४ ॥
तस्मात्तु पुटसीमान्तं वेदमात्रं प्रशस्यते ।
पुटान्ताद्धनुसीमान्तं सार्धबङ्घङ्गुलं भवेत् ॥ ३५ ॥
गलमध्यर्धमात्रं स्याद् गलतूङ्गं युगङ्गुलम् ।
कर्णा(ण्ठा)द्धृदयमानं हृदयं (यान्) नाभिसीमकम् ॥ ३६ ॥
नाभ्यन्तं मेढ्रसीमान्तं समं वा युगत्रयम् ।
मेढ्रमू (मेढ्रादू) रुदीर्घं (दैर्घ्यं) स्यात्पञ्चविंशाङ्गुलं भवेत् ॥ ३७ ॥
जानुपादतलं वेदमात्रं जङ्घोरुतुल्यकम् ।
पाणिष्ण (ष्र्ण्येर) ङ्गुष्ठसीमान्तं सार्धषोडशमात्रकम् ॥ ३८ ॥
हिक्कासूत्रादधो बाहुदीर्घं (दैर्घ्यं) पञ्चदशाङ्गुलम् ।
कूर्परं च द्विमात्रं स्यातप्रकोष्ठमेकोनविंशतिः ॥ ३६ ॥