Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s61.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s61.1
- Language
- English
v3.c24.s61.1
अथ वक्ष्ये त्रिमूर्तीनां वाहनानां तु लक्षणम् ।
हंसस्य लक्षणं चैव गरुडस्य तु लक्षणम् ॥ १ ॥
वृषस्य लक्षणं चैव सिंहरूपस्य लक्षणम् ।
पितामहोदयं वापि द्वित्रयांशीकमेव वा ॥ २ ॥
वृत्तमादि त्रिधा प्रोक्तं हंसोदयमिति स्मृतम् ।
द्वितालोत्तममानेन भागं हंसोदयं भवेत् ॥ ३ ॥
वेदांशं शिरसो तु(सस्तु)ङ्गमष्टांशेन गलोदयम् ।
रुद्रांशो(शं) हृदयतुङ्गं स्यात्तस्याधोऽधो(धःक)रुदीर्घ(दैर्घ्य)कम् ॥ ४ ॥
सत्रिपादांशकं जानुतुङ्गमेकांशमीरितम् ।
ऊरुतुङ्गसमं जङ्घायामं पादोदयांशकम् ॥ ५ ॥
मुखायामं त्रियं(त्रयां)शं स्याच्छिरःपृष्ठे द्वयंशकम् ।
मुखतारं युगांशं स्यान्मूलभावं शिवांशकम् ॥ ६ ॥
अग्रमूलाप्रक्षयं तारं ग्रीवस्य(वं स्याद्) द्विवक्रयुक् ।
कुक्षिताश(रम)ष्टमात्रं स्यादुर(रः)स्थानं तु वृत्तसम् ॥ ७ ॥
तदुत्तरात्पुच्छमूलादायामं षोडशांशकम् ।
अञ्चतारं शराङ्गुल्यं पक्षायामा(मम)ष्टमात्रकम् ॥ ८ ॥
विस्तारं च द्विमात्रं स्यादग्रमेकाङ्गुलं भवेत् ।
घनमेकाङ्गुलं चैव बाहुदीर्घा(दैर्घ्यम)ष्टमात्रकम् ॥ ९ ॥
अंशेन कूर्परं स्यात्कराग्रायामं षडङ्गुलम् ।
लाङ्गलाकारहस्तौ च पक्षस्यान्तं प्रविष्टके ॥ १० ॥
ऊरुमूलविशालं स्यात्सार्धद्व्यंशं सुवृत्तकम् ।
अध्यर्धांशा(शम)प्रविस्तारं पादांशं जानुविस्तृतम् ॥ ११ ॥
Linked texts (1)
- Mānasāra — Sanskrit