Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s61.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s61.2
- Language
- English
v3.c24.s61.2
जङ्घायामं शिवांशं स्यात्तत्ततारं द्विमात्रकम् ।
वरदो(पुरतो) मध्यम्राहुल्य[मा]यामं तु युगांशकम् ॥ १२ ॥
तत्पार्श्वे द्विद्विमात्रं स्याद् द्विमात्रायां(यामं) प्रशस्यते ।
पृष्ठे मूलाङ्गुलायामं द्विमात्रं तत्प्रशस्यते ॥ १३ ॥
पुरतो मात्रविस्तारं पृष्ठे च तत्सम्वन्धनम्(त्समं भवेत्) ।
अध्यर्धमङ्गुलतारं तदर्धमन्याङ्गुलानि च ॥ १४ ॥
प्रास्यायामं त्रिमात्रं स्याद् विस्तारं चैकमात्रकम् ।
अक्षायाममर्धमात्रं स्याद् विस्तारं युक्तितो न्यसेत् ॥ १५ ॥
मुखायामे तु तन्मध्ये वाचं कुर्याद् विचक्षणः ।
द्वियवं कर्णसूत्रं स्यादक्षायाममन्तरं भवेत् ॥ १६ ॥
शिरो(र ऊ)र्ध्वं स्तूपितुङ्गं स्याद् बाहुलेकाबहुल धनम् ।
तदायामं पड्डुल्यं शिरःपृष्ठावसानकम् ॥ १७ ॥
विस्तारं तु युगाङ्गुल्यं शे युक्त्या प्रयोजयेत् ।
सर्वाङ्गं धवलाकारं पादौ च रक्तवर्णायुकू ॥ १८ ॥
तदास्यं हेमवर्णाभं कुर्यात्तु ब्रह्मवाहनम् ।
सर्वषामपि मूर्तीनां देवत्यानं च कल्पयेत् ॥ १९ ॥
एवं हंसे पुच्छकं पत्रयुक्तम्
पृष्ठे प्रोवे स्तूपिकापत्रवल्या ।
लम्बं कुक्षिरानृत्त(तः) पत्रैः
सर्वैर्येगैरभिरामं संभूष(प्य)म् ॥ २० ॥
देवानां भूतैतिलानां नृपाणाम्
हर्म्ये देशे प्रस्तरे चोत्तरोर्ध्वं ।
कूटैर्नीडैः सर्वतो ग्रोवदेशे
युक्त्या कुर्यात् श्रे(च्छ्रे)ष्ठिकाहंसं भूष्यम् ॥ २१ ॥