Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62.3

Language
English

v3.c24.s62.3

एवं माने तु संप्राप्ते यावल्लारूक्तवद् भवेत् ।
चलं वाप्यचलं वापि कारयेच्छल्पवित्तमः ॥ १२ ॥
षड्वर्गायादिषु सुलक्षणं वक्ष्यतेऽधुना ।
सर्वेषां वाहनानां चायादांश्च यथा तथा ॥ १३ ॥
यथावाहनतुङ्गे तु वृद्धिहान्या यथाक्रमम् ।
गरुडं चैव हंसं च वृषभं चैव सिंहके ॥ १४ ॥
आयमष्टाभिर्वृद्धिः स्याद् द्वादशा(शभिः) क्षयमेव च ।
पञ्चवेदैश्च वृद्धिः स्याद् व्ययं हृत्वा दशमे(भिरे)व वा ॥ १५ ॥
योनिश्च त्रय(त्रिभिर) वृद्धिः स्याद् ध्रुवे(धेयात) चाष्टकमे(कैरे)व च ।
तदृक्षाऽष्टकवृद्धिः स्याद् गुणविंशत्क्षयो भवेत् ॥ १६ ॥
वारं महैश्च वृद्धिः स्यात्सप्तमी(मिश्रं) च क्षयो भवेत् ।
अंशं च चतुर्वृद्धिः (द्विश) च नवमी च(मिश्रं) क्षयो भवेत् ॥ १७ ॥
तच्छ्रेयं सर्वमायादि षड्वर्गं चैव कारयेत् ।
आयाधिक्यं व्ययं हीनं चोत्तरं तु व्ययाधिकम् ॥ १८ ॥
ध्वजो सिंहो वृषो हस्तो शुभयोनिरिति स्मृतम् ।
सिंहे च गजयोनिश्चेत् शु(च्छु)भं तस्माद्दिना गजम् ॥ १९ ॥
विवत्प्रत्यरगोदस्त्वि(स्ता)हीनान्यान(न्य)दिनं शुभम् ।
सौर्यार्काङ्गारवारं च वर्जयेच्छुभमन्यथा ॥ २० ॥
तस्करादि न षण्डं च प्रेष्यांशांनि विवर्जयेत् ।
एवमायादिकं कुर्यादङ्गमाने प्रवक्ष्यते ॥ २१ ॥
ज्वार(ऋजु) चरणरविबन्धैः (न्धु) द्वादशार्कार्कभानु
द्वयरसगुणचतुष्कं बन्ध (बन्धु) केशाननं च ।
गलधरमधरगुह्ये स्थाणुजान्वंघ्रि (इमित्रि) कं तत्
पदमिति गरुडतुङ्गं नन्दतालं (लं)क्रमेण ॥ २२ ॥
अथ सिंहपदतलानां पञ्चा(चा) दशदशांशम् ॥ २३ ॥
वदनं द्विगुणं बाह्रायतं कूर्पराचं प्रमुखकरैर्यष्टिपदम् ।
वलातलं तत्कथितमिति पुराणैः सुरिभिस्तत्र तन्त्रज्ञैः ॥ २४ ॥

Linked texts (1)