Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62.2
- Language
- English
v3.c24.s62.2
मूलबेरसेमो(ममु)त्तुङ्गं [तत्]त्रिपादमर्धमेव वा ॥ १ ॥ उत्सवोचं समं वापि द्विगुणं त्रिगुणमेव वा । त्रिगुणार्याधिकं वापि तच्चतुर्गुणमेव वा ॥ २ ॥ एवं नवोदयं प्रोक्तमुत्तमादि त्रयं त्रयम् । तत्तत्त्रिंशतिकं कृत्वा ए(चै)कैकांशविवर्धनात् ॥ ३ ॥ पञ्चविंशच्छतान्तं स्यात्तच्छुभायादिसंभवम् । अथवाङ्गुलमानेन कल्पयेद् गरुडोदयम् ॥ ४॥ एकाङ्गुलं समारभ्य द्व्यङ्गलविवर्धनात् । त्रयोविंशच्छतान्तं स्यान्मानायादिं कारयेत् ॥ ५ ॥ द्विजराजायं वापि मानयेद् गरुडोदयम् । पीठतारसमा(मम)र्ध्यर्थं पादोने द्विगुणं तु वा ॥ ६ ॥ द्विगुणात्पादमधिक्यं द्विगुणार्याधिकं तु वा । पादेनत्रिगुणं वापि त्रिगुणं पादमधिकम् ॥ ७ ॥ एवं नवविधं मानं कन्यसादीनि कारयेत् । तदायामसमं वापि त्रिपादं चार्यमेव वा ॥ ८ ॥ उत्तमादि त्रयं प्रोक्तं गरुडस्योदयं विदुः । न कुर्यात्पट्शुभायादि कुर्यात्तद्दंशमानतः ॥ ६ ॥ स्थानकं चासनं चैव गमनं च यथाविधि । उष्णोषात्पादपर्यन्तं गृहीतोत्तुङ्गं मानतः ॥ १० ॥ तत्तन्मानवशात्केचिन्मूलबेरवशान्यसेत् । उत्सवे चोत्सवं प्रोक्तमङ्गुलं मानविश्रुतः ॥ ११ ॥
Linked texts (1)
- Mānasāra — Sanskrit