Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s63.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s63.1
- Language
- English
v3.c24.s63.1
वृषभस्य लक्षणं सम्यग्वक्ष्यते विधिनाधुना ।
वायोरभिमुखं स्थाप्य(पयेत्) पीठे वाबोत्त्सवेपि(पपीठे) वा ॥ १ ॥
विमाने मण्डपे वापि चारोपरि परिन्यसेत् ।
द्वारतुङ्गसमं श्रेष्ठं त्रिभागं मध्यमं भवेत् ॥ २ ॥
कन्यसं द्विभागं स्यात्त्रिविधं वृषभोदयम् ।
एकहस्तं समारभ्य ए(चै)कहस्तेन वर्धनात् ॥ ३ ॥
नवहस्तान्तमुत्सेधं कन्यसादि त्रयं त्रयम् ।
पञ्चविंशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ ४ ॥
एकत्रिशति मात्रान्तं यः(यत्) शुभायादिसंभवम् ।
बेरोत्सेधसमं श्रेष्ठं कण्ठान्तं मध्यमं भवेत् ॥ ५ ॥
बाह्वन्तं कन्यसं प्रोक्तमुत्सवं वृषभोदयम् ।
पीठायामे त्रिभागैकं पीठतारसमं तु वा ॥ ६ ॥
पीठतारं त्रिपादं स्यात्त्रिविधं वृषभोदयम् ।
पादादुष्णीषसीमान्तं स्थानकं मानसंग्रहम् ॥ ७ ॥
स्थानकं शयनं वापि लोहजे वा शिलेऽथवा ।
दार्व्वाभासरत्नेन सुधामृत्कटकर्करा(भिः) ॥ ८ ॥
घनं वाप्यघनं वापि कुर्यात्तु शिल्पि(ल्प)वित्तमः ।
एवं तु वृषभोत्सेधं पञ्चादशाङ्गुलं भवेत् ॥ ९ ॥
उष्णीषात्तु गळामान्तं दशमात्रं प्रशस्यते ।
तस्याधो वसुभागं स्याद् ग्रीवातुङ्गमिति स्मृतम् ॥ १० ॥
तस्याधो चो(घरनो)रुमूलान्तं षोडशाङ्गुलमेव च ।
षडङ्गुलं चोरुदीर्घं(दैर्घ्यं) द्विमात्रं जानुतुङ्गकम् ॥ ११ ॥