Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s63.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s63.2
- Language
- English
v3.c24.s63.2
जहा पो(हाया क)रुसमं दीर्घं(दैर्घ्यं) क्षुरोत्सेधं द्विमात्रकम् ।
ग्रीवात्तु पुच्छमूलान्तं चत्वारिंशाङ्गुलायतम् ॥ १२ ॥
शृङ्गायामं युगाङ्गुल्यं शृङ्गतारं त्रिमात्रकम् ।
तदष्टांशैकभागं स्यात् शृ(च्छृ)ङ्गाग्रस्य विशालकम् ॥ १३ ॥
फा(भा)लतारं नवाङ्गुल्यं मुखतारं शराङ्गुलम् ।
तत्समं चोच्च्रयं कुर्यान्नेत्रायामं द्व्यङ्गुलम् ॥ २८ ॥
अत्थ(व्य)र्धाङ्गुलमुत्सेधं निर्गमं सा(चा)र्धमात्रकम् ।
नेत्रमध्ये मुखायाममष्टाङ्गुलमिति स्मृतम् ॥ १५ ॥
तस्मात्कृकर(काटि)कान्तं स्यात्षण्मात्रं तदुदाहृतम् ।
शृग(शृङ्ग)मध्यं युगाङ्गुल्यं भालतुङ्गं तथैव च ॥ १६ ॥
नेत्रान्मू(न्ताच्चैव मू)र्धान्तं वेदमात्रान्तरं भवेत् ।
शरांशं श्रोत्रदीर्घं(र्घ्यं)स्याच्छ्रोत्रमूलं द्विमात्रकम् ॥ १७ ॥
तत्समं विस्तृतं चैव मध्यतारं युगाङ्गुलम् ।
शिवाङ्गुला(लम)प्रविस्तारं यवाह(ना)लमर्धाङ्गुलम् ॥ १८ ॥
अत्य(व्य)र्धाङ्गुलं संप्रोक्तं नासिकायाममेव च ।
अङ्गुलं सु[षि]रविस्तारं तत्समं नासिकाम्रकम् ॥ १६ ॥
पञ्चाङ्गुल(लमा)स्यायतं स्यादुत्तरोष्ठं त्रिमात्रकम् ।
अधरोष्ठं त्रिमात्रं स्याजिह्वायामं गुहांशकम् ॥ २० ॥
तद्विस्तारं द्विमात्रं स्यात्तदर्धं तद् घनं भवेत् ।
ग्रीवतारं तु पञ्चांशं मूलतारं त्रिमात्रकम् ॥ २१ ॥
पृष्ठभोवस्य मूले तु घनमष्टाङ्गुलं भवेत् ।
श्रमं षडङ्गुलं चैव कुर्याद् वासं षडङ्गुलम् ॥ २२ ॥
तदुत्सेधं चतुर्मात्रं ग्रीवात्वे(र्या) लम्बने बुधः ।
मूलमध्याग्रविस्तारं वेदवह्न(न्यु)कलाङ्गुलम् ॥ २३ ॥
घनमष्टाङ्गुलसंयुक्तं कुर्यात्तत्रैव योजयेत् ।
ग्रीवस्य(वाया)पुरतो बिम्बं मूलन्यास(सं) द्व्यङ्गुलम् ॥ २४ ॥
हृदयात्स्निग्धपर्यन्तं तत्रो(दु) घं द्विनं(दिन)बाहुलम् ।
पृष्ठोघं मनुमात्रं स्यात्पृष्ठतारं चतुष्टयम् ॥ २५ ॥