Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s63.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s63.3
- Language
- English
v3.c24.s63.3
पृष्ठोरूमूलविस्तारं दशमात्रं प्रशस्यते ।
मध्यभं चाष्टमात्रं स्यादग्रं तु चतुरङ्गुलम् ॥ २६ ॥
शराङ्गुलं चोरुदीर्घं (दैर्घ्यं) स्याज्जानुतुङ्गं कखाङ्गुलम् ।
जङ्घायामं शराङ्गुल्यं खुरतुङ्गं द्विमात्रकम् ॥ २७ ॥
सार्धवह्व्यङ्गुलं जानुविस्तारं परिकीर्तितम् ।
खुरायामं द्विमात्रं स्यात्पुच्छमूलं द्विमात्रकम् ॥ २८ ॥
अपरोरुद्वयोर्मध्ये मुष्कशेषोदरान्वितम् ।
स्कन्धतारं षडङ्गुल्यं तस्याधो (ध ऊ) र्ध्वविशालकम् ॥ २९ ॥
मूलं वेदाङ्गुलं प्रोक्तमग्रस्या (ग्रं स्याद्) र्धगुणाङ्गुलम् ।
जानुतारं गुणाङ्गुल्यं तधो (था) जङ्घाविशालकम् ॥ ३० ॥
सार्धं (सार्ध) द्व्यङ्गुलयोर्मध्ये तत्समं तत्खुरं भवेत् ।
शेषं युक्त्या च संयुक्तं श्वेतवर्गे[न] शोभितम् ॥ ३१ ॥
श्वेतवर्णनिभं भद्रमग्रं हि कृष्णसधूमवत् ॥ ३२ ॥
वेष्टपादखुरैरपि कर्णयोः
श्वेतरक्तसमप्रमनोहरम् ।
शङ्खशत्यैः सद्यमरक्तं च माला
कर्णवन्धैः कर्णरुद्राक्षमाला ॥ ३३ ॥
अन्यैर्युक्तं किंशुकपुष्पमालैः(लाभिः)
वंशस्यार्ध्वे व्याघ्रचर्माभिरामम् ।
भृङ्गकोलकल्ललाटपट्टधृक्
पत्रवल्लि(ल्ली) बहुरत्नशोभितम् ॥ ३४ ॥
कर्णयोर्वैपुर(पुः)पार्श्वचामरैः
पादनूपुरसभूषणान्वितम् ॥ ३५ ॥