Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.1
- Language
- English
v3.c24.s66.1
उत्तमं (म) दशतालस्य लक्षणं वक्ष्यतेऽधुना ।
मूर्द्धादिपादपर्यन्तं तुङ्गमानं प्रशस्यते ॥ १ ॥
चतुर्विंशच्छतं कृत्वा तन्नैवांशेन मानयेत् ।
उष्णीषात्केशपर्यन्तं चतुर्मात्रं प्रशस्यते ॥ २ ॥
केशान्ताद्विन्वन्तं सैकाकींशं मुखायतम् ।
अर्द्धांशं गलमानं स्याद् वेदांशं गलतुङ्गकम् ॥ ३ ॥
गलान्ताद्धृदयान्तश्च व (स्तु वो) दरं नाभिसिमकम् ।
नाभेस्तु मेदूसीमान्तं सार्धत्रयोदशांशकम् ॥ ४ ॥
मेद्रान्तमूरुदीर्घ (दैर्घ्यं) स्यात् सप्तविंशाङ्गुलं भवेत् ।
जानुतुङ्गं युगाङ्गुल्यं जङ्घा चोरुसमायतम् ॥ ५ ॥
पादजानुसमोत्तुङ्गं मुखायामं त्रिधा भवेत् ।
अच्चिसूत्रावसानं च तस्याधो त (त्प) त्पदान्तकम् ॥ ६ ॥
हिक्कासूत्रादधो बाहुदीर्घ (दैर्घ्य) मष्टाङ्गुलं भवेत् ।
कूर्परं च द्विमात्रं स्यान्मणिबन्धावसानकम् ॥ ७ ॥
प्रकोष्टमेकविंशांशं दीर्घं तस्य ततायतम् ।
मध्याङ्गुल्याग्रपर्यन्तं सार्धत्रयोदशांशकम् ॥ ८ ॥
तन्मध्यम(मा) ङ्गुलायामं सार्धं षडङ्गुलं भवेत् ।
शेषं चान्तस्तलायामं पाद(दं) सप्तदशांशकम् ॥ ९ ॥
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तद्दीर्घाङ्गुष्ठ मायतम् ।
सपाद (सार्धं) वेदाङ्गुलं प्रोक्तं तदर्थं विस्तृतं भवेत् ॥ १० ॥
तदर्थं नखविस्तारं तत्पादोन्नायतं तथा ।
नखं वृत्तायतं चैव चार्शं तन्मुखं मांसलम् ॥ ११ ॥