Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.2
- Language
- English
v3.c24.s66.2
नखं तत्पार्श्वयोश्चैव शेषं तु तत्समाहु(मांस)लम् ।
यवहीनाधंवेदांशं तर्जनीदीर्घकं भवेत् ॥ १२ ॥ 24
पादहीनं चतुर्भागं मध्यमाङ्गुलमायतम् ।
सयवत्र्यंशकं चैवानामिकायामभिष्यते ॥ १३ ॥
अर्धांशकद्वयाङ्गुल्यं कनिष्ठाङ्गुलदीर्घकम् ।
यवाधिक्यंशकं सार्धं यवहीनांशकं तथा ॥ १४ ॥ 28
यवाधिकं त्रिपादं च त्रिपादं तथथाक्रमम् ।
प्रादेशिन्यादि कनिष्ठान्तं विस्तारं तत्प्रशस्यते ॥ १५ ॥
स्वस्वतारार्धविस्तारं नखं प्रागुक्तवद् भवेत् ।
गुल्फाचिं(चि) मध्यसूत्रं तु तल(ला) भ्रान्तं तलायतम् ॥ १६ ॥ 32
षड्यवाधिकमष्टांशं तत्सूत्रात्पाष्णमूलकम् ।
वेदांशं चायतं तारं यवोपेतशरांशकम् ॥ १७ ॥
पश्चात्पाष्णिकपर्यन्तं बह्यर्धाशकमायतम् ।
पाणिमूलं षडंशं स्याद् गुल्फाधो त(धस्त)न्रदेशके ॥ १८ ॥ 36
तलमध्यमविस्तारं षडंशं यद्वयवाधिकम् ।
अग्रतारं षडंशं तु तद्घनं च त्रयाङ्गुलम् ॥ १६ ॥
पादमध्योत्कधं सार्धवेदमात्रं प्रशस्यते ।
अङ्गुलीनां द्वि(त्रि)पर्व(वं) स्याच्छेषं युक्त्या प्रयोजयेत् ॥ २० ॥ 40
सपादभूताङ्गुलं चैव गुल्फतारमिति स्मृतम् ।
सपादवेदाङ्गुलं चोध्र्व नालिकाविस्तृतं भवेत् ॥ २१ ॥
जङ्घामध्ये च विस्तारं सार्धषण्मात्रं मानयेत् ।
जङ्घामूलस्य विस्तारं वसुमात्रं प्रशस्यते ॥ २२ ॥ 44
नवाङ्गुलं प्रकर्तव्यं जानुदेशविशालकम् ।
ऊरुमध्यविशालं तु द्वादशाङ्गुलमीरितम् ॥ २३ ॥
सार्धत्रयोदशांशं स्यादूरूमूलविशालकम् ।
विंशांशं च कटितारमूर्ध्वे श्रोणि विशालकम् ॥ २४ ॥ 48
सार्धमष्टादशाङ्गुल्यं मध्योदरविशालकम् ।
षोडशांशं भवेच्चोर्ध्व हृदयावधितारकम् ॥ २५ ॥