Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.5
- Language
- English
v3.c24.s66.5
एवं तु गलमानं स्यात्तदर्थं निर्गमं बुधैः ।
नयने तन्नित्रिपादं च ललाटे नेत्रमानकम् ॥ ५४ ॥ 108
अथवा तन्त्रिपादं च चार्धं वाथ त्रिधा भवेत् ।
संहारं च स्थितिः सृष्टिर्दृष्टिरेवं शिवस्य च ॥ ५५ ॥
नवलष्टेरोमहष्टिनन्दं ध्यात्वा शिल्पिवित्तमः ।
श्रोवरोम यथा कृत्वा तस्य माने न योजयेत् ॥ ५६ ॥ 112
यथा युक्त्या तथा वक्त्रे कुर्यात्तु तलदेशके ।
द्वियवाधिकमष्टांशं बाहुमध्यमविस्तृतम् ॥ ५७ ॥
कूर्परं तद् विशालं स्यात्सप्तमात्रं प्रशस्यते ।
प्रकोष्ठमध्यविस्तारं यवोपेतशरांशकम् ॥ ५८ ॥ 116
मणिबन्धविशालं तु सार्धवह्वयङ्गुलं भवेत् ।
तत्तले मूलविस्तारं सप्तमात्रं तु कारयेत् ॥ ५९ ॥
तन्मध्यमविशाले तु सार्धषण्मात्रकं भवेत् ।
तलाग्रप्रतारमर्धमाधिक्यं पञ्चाङ्गुलं विधीयते ॥ ६० ॥ 120
बहिः सार्धषडङ्गुल्यं मणिबन्धा[त्तु] तलायतम् ।
तस्मात्तु चाङ्गुलानां च दीर्घं(दैर्घ्यं) युक्त्या तद्वृद्धिर्भवेत् ॥ ६१ ॥
पुरोक्तानां तत्तद्द्दीर्घं(दैर्घ्यं) मङ्गुलीनां तत्तदायतम् ।
सपादोषेतवेदांशं चानामिकाङ्गुलदीर्घकम् ॥ ६२ ॥ 124
प्रादेशिन्यायामं भूतांशं स(च) वेदाङ्गुष्ठकनिष्ठकम् ।
अङ्गुष्ठमूलविस्ता˙ सपादामुलमेव च ॥ ६३ ॥
तर्जन्यनाभिमूले तु विस्तारं तच्छिठ्ठवंांशकम् ।
मध्यमाङ्गुलिमूले तु विशालं स्वाङ्घ्रियें(यवो)शकम् ॥ ६४ ॥ 128
पडूय˙ तत्कनिष्ठे तु विशालं तस्य मूलके ।
तत्तद्विदृष्टभागे तु तदेकांशविहीनकम् ॥ ६५ ॥
शेषाङ्गुल्यमविस्तारं विभजेत्प्रियं(त्रयां)शकम् ।
द्विभागं नखविस्तारं शेषे तु तद् द्विपाश्र्वयोः ॥ ६६ ॥ 132
अङ्गुष्ठे(ले) नखविस्तारे चतुर्भागाकमधिकम् ।
नखायाममिति चाम्रं द्वियवं तत्प्रशस्यते ॥ ६७ ॥