Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.4

Language
English

v3.c24.s66.4

श्रोत्रतारं द्विय(ड्या)र्धांशं शेषमूह्यं विचक्षणैः ।
नेत्रान्तात्कर्णसीमन्तं ह्यन्तरं सप्तमात्रकम् ॥ ४० ॥ 80
द्वयर्धांशं नास्य(सि)विस्तारमग्रमेकाङ्गुलं भवेत् ।
पुटतारार्धमात्रं स्यात्तद्द्दीर्घ(दैर्घ्यं) पञ्चयवं भवेत् ॥ ४१ ॥
सुषिरं चार्धमात्रं स्यात्तारं पञ्चयवं भवेत् ।
पुष्करोत्सेधमंशं स्याद् विस्तारं तद्द्वयं भवेत् ॥ ४२ ॥ 84
एकांशं द्वयमाधिक्यं नासिमध्यं तु विस्तृतम् ।
तदर्धं मूलविस्तारं तुङ्गमर्धं(कं) यथाक्रमम् ॥ ४३ ॥
गोजिमूलं तदग्रान्तं नासितुङ्गं द्वयङ्गुलम् ।
पुष्करं स्यादधोगोजी दीर्घं(दैर्घ्यं) चतुर्यवं भवेत् ॥ ४४ ॥ 88
निम्नं तु यवं चैव विस्तारं त्रियवं तथा ।
तस्यास्तथोत्तरा पालि यवमेवं(कं) विधीयते ॥ ४५ ॥
तस्याधश्चोत्तरोष्ठं च तारं षड्यवं भवेत् ।
आहृत्वा(असृक् त्व)र्घयवं चैव तद्वायाधा(द्वाय)र्युक् [स्यादेव] ॥ ४६ ॥ 92
अधरोष्ठं शिंवांशं स्याद् विस्तारं चोन्नतसमम् ।
अस्यायामं चतुर्मात्रमसृक्का(ग)न्तं तु कारयेत् ॥ ४७ ॥
त्रियं(त्र्यं)शार्धा(र्धम)धरायामं चार्धं चन्द्रवदाकृति ।
त्रिवक्त्रं(? यवं) चोत्तरा पाली चान्तरैश्चैव संयुतम् ॥ ४८ ॥ 96
द्वयं तत्तद्विस्तारं तत्समं चायतविस्तृतम् ।
अधरोर्ध्वं तु दन्तं च तद् द्वात्रिंशत्तु दन्तकम् ॥ ४९ ॥
अधरस्याधोदेशे चिबुकायाः(कं च) शिवांशकम् ।
शेषं यवान्तरमुत्सेधं हन्वन्तं तत्प्रदेशके ॥ ५० ॥ 100
हन्वन्तं विस्तृतं ज्ञात्वा सार्धबह्वङ्गुलं भवेत् ।
हन्वन्तं कर्णबन्धान्तं द्वया(योर)न्तरं दशाङ्गुलम् ॥ ५१ ॥
हन्वन्तरद्वयोर्मध्ये निम्नतुङ्गं शिवायतम् ।
हन्वन्ता(न्तमा)यतवृत्तं स्याद् विस्तारार्धसमं भवेत् ॥ ५२ ॥ 104
द्वियवाधिकमंशं च हन्वन्ताद् गोजि तद् भवेत् ।
हन्वन्तं मध्यमूले तु गलं तद् द्वयमात्रकम् ॥ ५३