Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.1
- Language
- English
v3.c24.s68.1
सर्वेषां देवदेवीनां ऋजु(शयन)स्थानके चा(का)सने ।
मानसूत्रविधिं सम्यग्लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
बेरायामसमं वापि त्रिपादं चार्थमेव वा ।
आयामं त्रिविधं प्रोक्तं तत्तदूर्ध्वविशालकम् ॥ २ ॥
देव(ह)लब्धाङ्गुलं चैव चतुस्त्रिद्व्यङ्गुलं घनम् ।
एवं प्रलम्बफलका प्र(ल)क्ष्या चतुरश्रकम् ॥ ३ ॥
तत्समं चासनं कुर्याद् घनं मानाङ्गुलेन च ।
चतुष्पादं त्रिपादं च द्विपादैकाङ्घ्रिमेव वा ॥ ४ ॥
आसनस्योपरि स्थाप्य मध्य(ध्ये) बेरं विनिक्षिपेत् ।
सपादबेरायतं वाप्यर्धेनैकाङ्घ्रितुङ्गकम् ॥ ५ ॥
पादतारं यथायुक्त्या कारयेत्तक्षकेन तु ।
फलका चा(मा)सने चैव मुनि(मान)सूत्रं प्रसारयेत् ॥ ६ ॥
कुर्याद्युक्त्या च पादोर्ध्वे प्रलम्बफलकां न्यसेत् ।
सूत्राग्रे कन्दुकाकारं लौहे पाषाणकेऽथवा ॥ ७ ॥
तन्मध्ये सुषिरं कृत्वा बन्धयेच्छिल्पिवित्तमः ।
फलके योजयेत्सर्वं सूत्रमेवं प्रशस्यते ॥ ८ ॥
पूर्वापरपार्श्वे तु कायमध्ये प्रलम्बयेत् ।
स्थानके चासने वापि पञ्चसूत्रमुदीरितम् ॥ ९ ॥
मुखान्तं द्विडिमात्रं स्याल्लम्बं सप्तमिति स्मृतम् ।
तत्पृष्ठशिरःपार्श्वे तु वक्त्रान्ते रज्जुं लम्बयेत् ॥ १० ॥
नवसूत्रमिति प्रोक्तमेकादशमि(वे)होच्यते ।
कक्षतारं द्वयो(यं) सूत्रं लम्बयेद् रुद्रसूत्रकम् ॥ ११ ॥