Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.2
- Language
- English
v3.c24.s68.2
अथवा पृष्ठमध्ये तु सूत्र(त्रं) म(द्ध)न्वन्त(न्तं) लम्बयेत् ।
चतुर्दिक्षु चतुर्मध्ये पञ्चसूत्रं प्रधानकम् ॥ १२ ॥
अन्यथा पुरतो देशे सर्वं मध्यादि लम्बयेत् ।
पुटपार्श्वौ मुखान्तौ च कु[क्ष्]चौ [वा] बाहुपार्श्वकौ ॥ १३ ॥
लम्बयेत्सूत्रमित्युक्तमेतदेकादश[स्] तथा ।
परहस्तौ पुटपार्श्वे सूत्रं त्यक्त्वा चतुष्टयम् ॥ १४ ॥
शेषं तु सर्वसूत्रं स्यादासने च प्रकल्पयेत् ।
स्थानके रुद्रसूत्रं स्याल्लम्बयेद्(त्तु) विचक्षणः ॥ १५ ॥
शिखामणिस(णौ) तु मौल्यग्रे मध्यमे मौलिमध्यमे ।
मौलिमूलं(ले) च पट्टं(ट्टे) च ललाटस्य तु मध्यमे ॥ १६ ॥
भ्रुवयो(वो)र्मध्यमे [च] नासिका मध्यमे हनुमध्यमे ।
हिक्काच(या) मध्यमे चैव तथा हृदयमध्यमे ॥ १७ ॥
तस्याधो नाभिमध्ये च मेढ्रमध्यं(ध्ये) तथैव च ।
ऊरुमूलद्वयोर्मध्ये जान्वयो(न्वो)र्मध्यमे तथा ॥ १८ ॥
नलका [च] द्वयोर्मध्ये [च] पाणिँयो(ष्ण्योँ)र्मध्यमे तथा ।
तलमध्यद्वयोर्मध्यमङ्गुष्ठयोर्मध्यमे तथा ॥ १९ ॥
एवं तु लम्बयेत्कुचिन्नासामग्रे स्पर्शयेद् बुधः ।
सूत्रात् शि(च्छि)खामणि(णिः) स्याद् द्वन्तरं द्वादशाङ्गुलम् ॥ २० ॥
सूत्रान्मौलिमूलान्तं रसमात्रान्तरं भवेत् ।
सूत्रं ललाटमध्यं तद् ह्यन्तरं ह्यङ्गुलं भवेत् ॥ २१ ॥
हिक्कामध्यं तु सूत्रान्तं ह्यन्तरं तु षडङ्गुलम् ।
तत्सूत्राद्धृदयान्तं च ह्यन्तरं सार्धमात्रकम् ॥ २२ ॥
तत्सूत्रान्नाभिसीमान्तं ह्यन्तरं तु शिवाङ्गुलम् ।
तत्सूत्रान्मेढ्रमूलान्तं ह्यन्तरं तु गुणाङ्गुलम् ॥ २३ ॥
स्थानके चासने वापि स्थानकेषु विशेषतः ।
पार्श्वसूत्रद्वयं काये ह्यन्तरं तदिहोच्यते ॥ २४ ॥
तत्सूत्रादूरुमूलान्तं ह्यन्तरं तद् द्विमात्रकम् ।
सूत्रं च जानुमध्यं तत्सार्धवेदाङ्गुलान्तरम् ॥ २५ ॥