Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.5
- Language
- English
v3.c24.s68.5
एवं तु लम्बयेत्सूत्रं समभङ्गमिति स्मृतम् ।
उष्णीषात्(पस्य) पूर्वपार्श्वे तु यथोक्तं नेत्रमध्यमे ॥ ५४ ॥
स्तनपार्श्वे चोरुमध्ये जानुजङ्घा [च] मध्यतः ।
तद् गुल्फान्त्वयोर्मध्ये ह्यन्तरं तु गुणाङ्गुलम् ॥ ५५ ॥
जानुद्वयोरन्तरं चाष्टमात्रं युक्त्या प्रयोजयेत् ।
ऊरुमूलद्वयोर्मध्ये ह्यन्तरं ह्यर्थमात्रकम् ॥ ५६ ॥
अङ्गुष्ठामं(ग्र) द्वयोर्मध्ये ह्यन्तरं द्वादशाङ्गुलम् ।
आभङ्गान्तरं प्रोक्तं समभङ्गमिरहोच्यते ॥ ५७ ॥
तत्पादाङ्गुष्ठद्वयोर्मध्ये ह्यन्तरं षोडशाङ्गुलम् ।
पाष्ण्यन्तरं चतुर्मात्रं दशाङ्गुलं जानुकान्तकम् ॥ ५८ ॥
ऊरुमूलद्वयोर्मध्ये ह्यन्तरं त्वङ्गुलं भवेत् ।
एवं तु समभङ्गं स्यादतिभङ्गमिरहोच्यते ॥ ५६ ॥
पाष्ण्यन्तरं शराङ्गुल्यं तत्पादाङ्गुष्ठयोरमकै ।
तद्वयोर्मध्यमे विंशदङ्गुल्यं ह्यन्तरं भवेत् ॥ ६० ॥
तज्जानुद्वयोर्मध्ये ह्यन्तरं द्वादशाङ्गुलम् ।
ऊरुमूलद्वयोर्मध्ये सार्धह्यङ्गुलकान्तक(र)म् ॥ ६१ ॥
एवमतिभङ्गं स्यादेतानि युक्तितो न्यसेत् ।
एवं त्रिभङ्गसूत्रं तु ह्यन्तरं मानमुच्यते ॥ ६२ ॥
सूत्रात्तु तल्ललाटान्तं ह्यन्तरं च द्विमात्रकम् ।
तत्सूत्राज्जानुकान्तं च ह्यन्तरं तु षडङ्गुलम् ॥ ६३ ॥
तत्सूत्रात् हृ(हू)दयान्ते च ह्यन्तरं चाङ्गुलं भवेत् ।
तत्सूत्रान्नाभिसामान्तमध्यर्घाङ्गुलकान्तक(र)म् ॥ ६४ ॥
तत्सूत्रान्मेट्रसीमान्तं ह्यन्तरं तु गुणांशकम् ।
तत्सूत्रादूरुमध्ये तु ह्यन्तरं च द्विमात्रकम् ॥ ६५ ॥
तत्सूत्राज्जानुकान्तं स्याद् रसमात्रान्तरं भवेत् ।
तत्सूत्रं नलकान्तं स्याद् ह्यन्तरं चाष्टमात्रकम् ॥ ६६ ॥
स्थितपादान्तरे चैव कुर्यात्तु वर्धकित्तथा ।
नासाम्रे कुचिदेशे सूत्रं तु(त्तस्य) स्पर्शनं भवेत् ॥ ६७ ॥