Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.4
- Language
- English
v3.c24.s68.4
पूर्वे च मध्यसूत्रं तु पृष्ठसूत्रं प्रलम्बयेत् ।
तदेव मौल्यग्रमध्ये मौलिमूलस्य मध्यमे ॥ ४० ॥
तत्कृत्वाथ ककुन्मध्ये वंशमध्ये तु लम्बयेत् ।
जघनस्य द्वयोर्मध्ये ऊ(चो)रुद्वयोश्च मध्यमे ॥ ४१ ॥
पृष्ठजानुद्वयोर्मध्ये पाणिण्यो(ष्ण्यो) र्मध्ये [च] लम्बयेत् ।
एवं तु वरसूत्रं स्यात्पार्श्वसूत्रमिहोच्यते ॥ ४२ ॥
कर्णयोः सुषिरमध्ये पार्श्वकायस्य मध्यमे ।
गुल्फस्य मध्यमे चैव पार्श्वसूत्रं प्रलम्बयेत् ॥ ४३ ॥
पिप्पलीबाह्यदेशे तु स्तनचूचुकमध्यमे ।
ऊरुजानु(न्वोर) यथादेशे तर्जन्यङ्गुष्ठमध्यमे ॥ ४४ ॥
कक्षसूत्रात्कटिपार्श्वेऽपरे सा(चा)ङ्गुलाष्टकम् ।
शक्तीनां कटिदेशे तु लम्बयेत्तु कनिष्ठके ॥ ४५ ॥
बाह्वो मध्यमे वापि कटी च(टि)पुटपार्श्वके [च] ।
एवं तु कार्यसूत्रं स्याल्लम्बयेच्छिल्पिवित्तमः ॥ ४६ ॥
परहस्तपार्श्वयोः सूत्रं मानयेज्जानुपार्श्वकम् ।
सर्वाङ्गं च ऋजुं कुर्यात्पूर्वापर(वरयोर्) योजयेत् ॥ ४७ ॥
ऋज्वाङ्गकभावं सामान्यमिति विद्यते ।
सर्वेषां (र्वासां) देवदेवीनां भङ्गमानमिहोच्यते ॥ ४८ ॥
आभङ्गं समभङ्गं च अ(सु चा)तिभङ्गं त्रिधा भवेत् ।
त्रिचतुष्पञ्चमात्रं स्यात्तद्भङ्गमानमिति क्रमात् ॥ ४९ ॥
उष्णीषमध्यमे चैव ललाटं चै(टस्यै)व मध्यमे ।
नासिकाग्रस्य मध्ये तु हिक्का (या) यथोक्तपार्श्वके ॥ ५० ॥
यथोक्तचूचुकस्यान्तं नाभिपाश्चें यथोक्तवत् ।
यथोक्तश्रो(ण्यो)रुरुगुल्फस्य [च] पार्श्वसूत्रं प्रलम्बयेत् ॥ ५१ ॥
एवमाभङ्गसूत्रं स्यात् समभङ्गमिहोच्यते ।
उष्णीषात्(पत्य) तु यथापाश्वें ललाटस्य तु पार्श्वके ॥ ५२ ॥
यक्षपुटपार्श्वे तु स्तनचूचुकमध्यमे ।
नाभिश्चोरुस्तथा जङ्घा यथोक्तं गुल्फपार्श्वके ॥ ५३ ॥