Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s7.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s7.6
- Language
- English
v3.c24.s7.6
पूपस्य(प्यश्च) पदमेकं स्याद्याग्निकोणस्य पश्चिमे ।
विधात(तथ)स्य पदं चैकं पूषकस्य तु पश्चिमे ॥ ६६ ॥
गृहक्षतस्यैकपदं विधात(तथ)स्य पश्चिमे ।
गन्धर्वस्य पदं चैकं धर्मदेवस्य पश्चिमे ॥ ७० ॥
भृङ्गराजस्यैकपदं गन्धर्वस्य तु पश्चिमे ।
मृध(मृश)स्यैकपदं शस्तं भृङ्गराजस्य पश्चिमे ॥ ७१ ॥
दौवारिकस्यैकपदं गगनस्य तु चोत्तरे ।
सुग्रीवस्य पदं चैकं दौवारिकस्य चोत्तरे ॥ ७२ ॥
पुष्पदन्तस्यैकपदं सुग्रीवस्य तु चोत्तरे ।
असुरस्यैकपदं शस्तं वरुणस्य तु चोत्तरे ॥ ७३ ॥
शोषकस्य पदं चैकं चासुरस्य तु चोत्तरे ।
रोगस्यैकपदं प्रोक्तं शोषकस्यैव चोत्तरे ॥ ७४ ॥
नागस्यैकपदं शस्तं पवनस्य तु पूर्वके ।
मुख्यस्यैकपदं ज्ञात्वा नागस्यैव च पूर्वके ॥ ७५ ॥
भल्लाटस्य पदं चैकं प्रोक्तं मुख्यस्य पूर्वके ।
सोमस्यैकपदं शस्तं सोमदेवस्य पूर्वकम् ॥ ७६ ॥
अदितेस्तु पदं चैकं शस्तं मृगान्तु(गस्य) पूर्वके ।
अदितीशानयोर्मध्ये चोदिते(तै)कपदं भवेत् ॥ ७७ ॥
हेमवर्णं चतुर्हस्तं चतुर्वक्राष्टलोचनम् ।
श्वेतवस्त्रजटामौलियज्ञसूत्रोत्तरीयकम् ॥ ७८ ॥
कर्णकुण्डलसंयुक्तमष्टकर्ण चतुर्गलम् ।
कमण्डलुं चाक्षमाला च वामसव्यकरौ(राभ्यां) धृतौ(तम्) ॥ ७९ ॥
अभयं(ये) दक्षिणे पूर्वेऽन्तस्य वा वरदे [इ]तरे ।
सर्वाभरणसंयुक्तं गण्डेन तिलकान्वितम् ॥ ८० ॥
पदे सर्वेषु मध्ये तु सृष्ट्यर्थमिति रूपकम् ।
एवं पितामहं ध्यात्वा(येत्) पद्मसिंहासनोपरि ॥ ८१ ॥
रक्तवर्णं चतुर्हस्तमेकवक्त्रं द्विनेत्रकम् ।
करण्डमकुटोपेतं रक्तवस्त्रोत्तरीयकम् ॥ ८२ ॥