Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s70.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s70.1
- Language
- English
v3.c24.s70.1
आलयाद्यङ्गसर्वेषु हीनाधिक्यं भवेद्यदि ।
राजराष्ट्रादिकर्तॄणां दोषप्राप्तिरिहोच्यते ॥ १ ॥
विस्तारे च समुत्सेधे ऽ(चो) पाने च मसूरके ।
पादे च प्रस्तरे चैव वेदिकायां गले तथा ॥ २ ॥
शिखरे स्तूपिकायाश(यां) च नासिकापञ्जरादिभिः(षु) ।
द्वारे च भद्रदेशे च मूशालादिषु देशके ॥ ३ ॥
गर्भगेहे तल्ले सर्वे(वे)सोपानादिषु सालके ।
गोपुरैः(रे) मण्डपाद्यैः च(दिषु) चान्तराले त्वलिन्द्र(न्द)के ॥ ४ ॥
प्रच्छादने प्रपाङ्गे च ऽ(तु चो)प्रान्ते तयोत्तरे ।
भित्तिदेशे च भागे च सर्वाङ्गे च न दोषयुक् ॥ ५ ॥
तस्मात्तु दोषसंप्राप्तिः शिल्पिदृष्टानि(द्भिर्भिर्) वारयेत् ।
विस्तारे न्यूने तत्मात्तु कर्तुद्रारिद्रयमावहेत् ॥ ६ ॥
तद्भूयोधिकमानं चेद् दारानाशो भवेद् ध्रुवम् ।
आदितुङ्गविहीनं चेत्कर्तुर्व्याधिमतो विदुः ॥ ७ ॥
तदेवाधिकमानं चेच्छत्रुवृद्धिर्न संशयः ।
अन्तर्जन्म बहिर्जन्म निम्नमु(स्रो)न्नतया स्थितम् ॥ ८ ॥
निर्वंशमेव तत्सर्वं कर्तृवंशं भवेद् ध्रुवम् ।
तज्जन्मदेशमार्गे च निम्नोध्नतमथापि ते(वा) ॥ ६ ॥
निर्गमोद्गमने वापि पुत्रनाशमवाप्नुयात् ।
अधिष्ठानेात्तुङ्गहीनं स्वात्स्थाननाशं धनक्षयम् ॥ १० ॥
वप्रादिवर्गसर्वेषु तन्मार्गे निम्नमुन्नतम् ।
कर्तॄणां क्षयरोगः स्यात्तुङ्गेन करणेन च ॥ ११ ॥