Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s70.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s70.2
- Language
- English
v3.c24.s70.2
पादतुङ्गा(ङ्गम)धिकं हीनं गोत्रनाशं कुलक्षयम् ।
प्रस्तरोत्तुङ्गहीनं चेद् विनश्येत्सद्ययादेव ॥ १२ ॥
तदेवाधिकं मानं चेत् प्रमाद्यं कर्तृनाशनम् ।
वेदिकायां विहीनं चेत् कर्तुर्द्दष्टिर्द्दिनं व्रजेत् ॥ १३ ॥
तत्कूर्च्चेऽधिकहीने चेद् भोजनेन विनाशनम् ।
शिखराङ्गा(ङ्गम)धिकं हीनं कर्तुः स्वात्स्फोटनं शिरः(रसः) ॥ १४ ॥
स्तूपिकमधिकं हीनं चेज्जनानां तु द(दा)रिद्रकम् ।
नासिकाङ्गमधिकं हीनं चेत् कर्तू्रोगं(गो) भविष्यति ॥ १५ ॥
पञ्जराद्यङ्गं हीनं चेदधिकं श्रीविनाशनम् ।
द्वारे च भद्रदेशे च मानहीनाधिकं तु चेत् ॥ १६ ॥
महारोगं(गो) भवेत्कर्तृ राजाराष्ट्रं विनश्यति ।
मुखाल्यधिकहीने चेत् कुक्षिरोगो भवेद् ध्रुवम् ॥ १७ ॥
जालकाधिकहीनं स्यात् श्री(स्त्री)हीनमर्थनाशनम् ।
शुद्धगर्भहमाधिक्यं हीनं चेद् ग्रामनाशनम् ॥ १८ ॥
हर्म्यजन्म समारभ्य सालजन्म(जाल)प्रदेशकम् ।
उत्तमं मानयेन्मानं जालस्योन्नतनिम्नकम् ॥ १६ ॥
समन्वेतो निम्नत्वमुन्नतत्वं प्रकारयेत् ।
कृतमज्ञानतो वस्तु सर्वसंपद्विनाशनम् ॥ २० ॥
प्राकारान्तप्रदेशं स्यात्परिवारासयादिकम् ।
सालजन्मसमं चैव धाम्नो(म)जन्मसमं तु वा ॥ २१ ॥
अथवा विपरीतं चेज्जनानां संपदं हरेत् ।
सोपानमधिकं हीनं कर्ता पङ्गुर्भवेद् ध्रुवम् ॥ २२ ॥
सालाङ्गमधिकं हीनं चेच्चीरैरर्थं विनश्यति(ते) ।
गोपुराङ्गमधिकं हीनं सर्वनाशं न संशयः ॥ २३ ॥
मण्डपादि सभाशाला तत्तन्न्यूनाधिकं तु चेत् ।
सर्वसंपद्विनाशाय राजा राष्ट्रं विनश्यति ॥ २४ ॥
अन्तर(रे तु) त्वलिन्द्रं(न्द्रे) वा हीनाधिक्यं प्रमाद्यकम् ।
कर्तुर्यां परिवारादि पुत्रपौत्रविनाशनम् ॥ २५ ॥