Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s70.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s70.3
- Language
- English
v3.c24.s70.3
ऊर्ध्वता(त)न्नस्य चाङ्गेषु माने हीनाधिकं तु चेत् ।
लोके भवेत्सनावृष्टिः स्वयं वृष्ट्या विनश्यति ॥ २६ ॥
प्रपाङ्गमधिकहीनं चेल्लोके दारिद्र(द्र्य) मावहेत् ।
लुपमानमधिकं हीनं सज्जनेन(नश्) च प्रविश्यति ॥ २७ ॥
अन्तश्चैव बहिश्चैव विपरीतो (त्सु) त्तरं तु चेत् ।
विद्यावृद्धिविनाशं स्याद् बन्धूनां भवेद् ध्रुवम् ॥ २८ ॥
कुड्याङ्गमधिकहीनं चेद् विस्तारे चोदयेऽपिवा ।
द्विजातिसर्ववर्णानां सर्वनाशकरं भवेत् ॥ २६ ॥
भित्तिश्रोण्यधिकं हीनं स्थाननाशं धनक्षयम् ।
तत्रहीनाधिके चेत्पादस्थानाङ्घ्रिकाश्रयम् ॥ ३० ॥
सर्वेषां भित्तिमानेषु तत्र दोषो न विद्यते ।
पादस्थानं विना भित्तिं सर्वदोषसमुद्भवम् ॥ ३१ ॥
यत्तद्वास्तु यथा कुर्यात्तत्तद्देशाधिकाङ्घ्रिका(रुहीना)न् ।
तथाङ्घियो (ङ्घर्यो) ऽन्यथा स्यात्तु पुत्रपौत्रविनाशनम् ॥ ३२ ॥
उक्तवत्स्यादङ्घ्रिकांशं च कुर्यात्तच्छुभदं सदा ।
ऊहापोहादिकीतियां शाखोत्के तु यदा तथा ॥ ३३ ॥
उहि (ऊहा) हीना चोक्तहीनात्यधि कर्तृ(ती) विनश्यति ।
तस्मात्तु शिल्पिविद्वद्भिः परिग्रहो(ह ङ) फलकुरु (क्रियेत) ॥ ३४ ॥
अङ्गहीनाधिकं दोषमेवमुक्तं पुरातनैः ॥ ३५ ॥
प्रासाद (दे) मण्डप (पे) तथावर(२) णादिदेशे
साङ्गे च गोपुरपदे त्वपरेषु सर्वे [पु] ।
दोषाधिकं यदि भवेत्त्वथवा गुणाधिकम्
तन्मर्त्यदेवनृपतिष्वपि तत्फलं स्यात् ॥ ३६ ॥