Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s8.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s8.1

Language
English

v3.c24.s8.1

बलिकर्मविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
ग्रामादीनां च सर्वेषां विन्यासार्थं बलिं क्षिपेत् ॥ १ ॥
वास्तुशुद्धिं ततः कृत्वा देवतार्थं पदं न्यसेत् ।
मण्डूकपदमेवाऽपि परमशायिकमेव वा ॥ २ ॥
ब्रह्मादिदेवतानां च राक्षसानां बलिं क्षिपेत् ।
कृतोपवासः स्थपतिः शुद्धदेहः प्रसन्नधीः ॥ ३ ॥
उत्कृष्टवेषो बल्यर्थं रात्रौ द्रव्यान्(णि) समाहरेत् ।
प्रभाते दिवसे द्रव्याने(ण्ये) कैकाने(न्ये)ककन्यकः ॥ ४ ॥
अथवा गणिकाहस्ते पात्रे स्वर्णादिकान्धृता[न्] ।
स्थपतिश्चैकपात्रेण धारयेद्वामके करे ॥ ५ ॥
द्रव्याणि क्षिप्य(प्त्वा) दद्यात्स्वसव्यहस्तेन मन्त्रवित् ।
सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः ॥ ६ ॥
सर्वमङ्गलघोषैश्च बलिं दत्वा यथाक्रमात्(क्रमम्) ।
तत्तन्नाम्नैश्च (म्ना च) देवानामोङ्कारादिनमोन्तकम् ॥ ७ ॥
मन्त्रमेतत् (तम्) समुच्चार्य ब्रह्मादिभ्यो बलिं हरेत् ।
देवालय pickार्थं सामान्यं ग्रामार्थं तु विशेषकम् ॥ ८ ॥
दध्योदनं च सर्वं तत्सामान्यं च बलिं विदुः ।
ब्रह्मादीनां च देवानां धूपदीपाक्षतैरपि ॥ ९ ॥
अद्य वक्ष्ये विशेषाख्यं बलिं शास्त्रोक्तवत्क्रमात् ।
स्रग्गन्धधूपदुग्धं च मध्वाज्यं पायसमो(सौ)दनम् ॥ १० ॥
ब्रह्मणे च बलिं दद्याद्वाजैन सह तन्त्रवित् ।
आर्याय फलभक्ष्यं स्यात्तिलमोदनकं दधि ॥ ११ ॥
पश्चाद्विवस्वते दद्याद्दधिपूर्वां(वं) च मर्द(मित्र) के ।
महीधराय क्षीरं स्यादभ्यन्तरबलिं(लिः) स्मृतम् (तः) ॥ १२ ॥