Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.19
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.19
- Language
- English
v3.c24.s9.19
तस्मात्तदनुसारेण कुर्यात्तद्वास्तुनिर्णयम् ।
ग्रामप्रदक्षिणकाले चाष्टदिक्पालके पदे ॥ २५१ ॥
सम्यक् प्रदक्षिणं कुर्याद्भूसु(घ)रादिसुरेश्वरैः ।
मार्गाभावेऽथवा वास्तुदिक्पालानां प्रदेशके ॥ २५२ ॥
दिक्पालानां बलिं सम्यक् कुर्याद्ब्रह्म(ह्यादि)कदेशके ।
संप्राप्य दर्शनं कृत्वा ततः पश्चान्निवर्तयेत् ॥ २५३ ॥
यत्र प्रदक्षिणं हीने तत्र दोषो न विद्यते ।
न बलिस्थान(ने) रथ्ये च कुर्याद्वास्तुप्रदक्षिणम् ॥ २५४ ॥
अज्ञानात्प्रवरं कुर्यात्सर्वदोष(षं)समुद्भवम् (वेत्) ।
ग्रामेष्वपि च सर्वेषु ए(वै)तमुक्तं पुरातनैः ॥ २५५ ॥
यत्र रथ्याप्रमूले वा मध्ये वा चान्तरालके ।
उक्तस्थानेऽथवा कुर्यादथ देवालयं तथा ॥ २५६ ॥
पश्चान्तरेऽथवा कुर्यात्तस्यावृत्त(त्त ) नरालयम् ।
अज्ञानात्पूर्वहर्म्यादीन् त्यक्ता(जेच् ) चेत्कर्तृनाशनम् ॥ २५७ ॥
तस्मात्पौराणिकं देवसदनं युक्तं [तु] कारयेत् ।
रथ्या सर्वे(र्वा) यद्यापार्श्वं च(चे)त्रकायाकृतिर्भवेत् ॥ २५८ ॥
गृहाणां दक्षिणावर्तवेशनद्वारकल्पनम् ।
ग्रामे प्रस्तुतानां च(चापि) गृहे द्वारं विशेषतः ॥ २५६ ॥
वीथिपार्श्वे गृहायामे नन्दभागविभाजिते ।
अन्तस्थितिवर्हिः पार्श्वे दक्षिणे पञ्चभागिकम् ॥ २६० ॥
वामे चतुर्गुणांशः स्याच्छेषं तु द्वारकल्पनम् ।
अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् ॥ २६१ ॥
पुराणेन पुराणे वा कुर्यात्तत्र विचक्षणः ।
दण्डकादिषु सर्वेषु वास्तुविन्यासयोजनम् ॥ २६२ ॥
पूर्वे चोत्तरे दिक्षु [वा] वृद्धिः स्यात्सम्पदाम्पदम् ।
दक्षिणे पश्चिमे दिक्षु ग्रामान्न्यूने शुभावहम् ॥ २६३ ॥
परितस्तु प्रवृद्धिः स्यात्पूर्वमाने न हीनकम् ।
देशकालादिनिर्देशे पौराण्यमिति कथ्यते ॥ २६४ ॥