Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.18

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.18

Language
English

v3.c24.s9.18

एवं तु कार्मुकं प्रोक्तं शेषं प्रागुक्तवद्भवेत् ।
चतुर्मुखं ग्राम(ख्य) विन्यास लक्षणं वक्ष्यतेऽधुना ॥ २३७ ॥
चतुरश्रसमाकारमायामं वा प्रकल्पयेत् ।
प्राकारं चतुरश्रं वा प्राक्प्रत्यग्गतायतम् ॥ २३८ ॥
परितस्तु महावीथीवीथिरेषा द्विपत्तयुक् ।
अन्तश्चतुष्पदं मध्ये वीथिकाभ्रं चतुर्दिशि ॥ २३९ ॥
तच्चतुर्वीथिकाग्रं च चतुर्द्वारं प्रकल्पयेत् ।
एकतस्तु महाद्वारमुपद्वारं तु पूर्ववत् ॥ २४० ॥
तत्तश्चतुःक्षुद्रवीथिं संकल्प्य च यथेष्टकम् ।
परितस्तु महारथ्यं चालयं सर्वजाति(ती)नाम् ॥ २४१ ॥
अन्तश्च शुद्रसंघः स्यादालयं परिकल्पयेत् ।
अथवा विप्रसंघश्चेत्पद्ममेव प्रकल्पयेत् ॥ २४२ ॥
अथवा वैश्यसंघश्चेत्कोलकोल(कं त )मुदीरितम् ।
कंचिचतुष्पदे सर्वे द्विजानामालयं भवेत् ॥ २४३ ॥
आग्नेये विप्रसंघश्चेन्नैर्ऋते नृपसेकुलम् ।
वायव्ये वैश्यसंघश्चेत्सद्य चे(त् शुद्रः स्या)दीशादि(दे)शके ॥ २४४ ॥
तत्पैशाचपदे चैव सर्वकर्मोपजीविनाम् ।
विष्णुरुद्रादिदेवानां गृहं कुर्यात्पुरोक्तवत् ॥ २४५ ॥
उक्तानुक्तं तु सर्वेषां कुर्यात्प्रागुक्तवद्भवेत् ।
एवं चतुर्मुखं प्रोक्तं ग्रामं तेषां(मेषु च) पुरातनैः ॥ २४६ ॥
रथ्याविरहितस्थाने कुर्याच्चोक्तं नरालयम् ।
रथ्ये नरालयश् (यं ) चेत्सर्वसंपद्विनाशनम् ॥ २४७ ॥
तस्मात्परिहरेच्छिल्पी नगरग्रामादि(म)वस्तुके ।
अथ पौराणिक ग्रामे संदिग्ध वस्तु निर्णयेत् ॥ २४८ ॥
रचिते ग्रामविन्यासं(सः) शास्त्रे युक्तं विशेषतः ।
पुरातनेषु ग्रामेषु देवता चोत्सवार्थकम् ॥ २४९ ॥
निर्वस्तु यत्र तत्र स्याद्वास्तुनिर्णयमिष्यते ।
पौराण्यां(ण्ये ) देवताहर्म्यं सर्वथाऽपि न कारयेत् ॥ २५० ॥