Pramāṇa · Search · About · API

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c11.48

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c11.48

Language
English

c11.48

इदानीमधुनाप्रसिद्धरागादीनां लक्ष्ये प्रतीतानां लक्षणविरोधनां परिहारार्थमुद्यमः क्रियते। तत्र विरोधोद्भावनप्रकारस्तावत्। ग्रामद्वयाज्ञात्यादिपरंपर्योत्पन्नामेतेषां रागाणां मध्यस्थानस्थषड्ज मध्यमस्थानयोरेव तत्तन्मूर्छनारंपक्षाश्रयेण शास्त्रविहिते संभवत्यपि, मध्यमग्रामोत्पन्नानां मध्यमादितोही प्रभृतीनां च मध्यममध्यमारंभं विहाय मध्यपड्जस्थान एव आरंभो लक्ष्यलक्षणविरुद्धः। तथा ग्रहस्वराय- चोत्तरस्वराणामभावः। त्रिचतुःश्रुतिकत्वेन ग्रामद्वयभेदकस्य पंचमस्यालोप्यत्वेन प्रयुज्यमानस्यापि सर्व रागेष्वेकरूपता। क्रियांगरामक्रियायां मध्यमस्य पंचमश्रुतिद्वयाक्रमणं, नष्टदेवकीप्रभृतिषु ऋषभ धैवतयोरन्तरकाकल्यादिमश्रुतिद्वयाक्रमणेन विश्रुतिले शास्त्रविहितेऽपि षड्जमध्यमयोर्शास्त्रविहितं त्रिश्रुतिवकरणेन कौशिकयोरवैशसम्। तत्रापि ऋषभधैवतयोर्गांधारनिषादादिमश्रुत्याक्रमणेन प्रत्येकं चतःश्रुतित्वं वा शास्त्रविहितम्। आधाल्या लक्षणे पंचमस्य मंहशत्वोक्त्या तथैव प्रस्तारे लिखितेऽपि