Pramāṇa · Search · About · API

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c11.63

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c11.63

Language
English

c11.63

लक्षिता विंशतिर्मेला गात्रे स्युर्निमिता अमी ।
पक्षद्वयं तु वीणायां वक्ष्यते लक्ष्यसमतम् ॥
प्राहांतरकाकलयोः स्वरूपे पृथक् पृथक् ।
पक्षोऽयं प्रथमस्तत्र मेलाः स्युर्विंशतिर्भुवम् ॥
अंतरस्य च काकल्यःस्थाने प्रतिनिधिः क्रमात् ।
च्युतमध्यमगांधारच्युतषड्जनिषादकः ॥
अथ द्वितीयः पक्षोऽत्र मेला पंचदशस्मृताः ।
अत्र प्रतिनिधिः पक्षे मुखारीमेल पूर्वकाः ॥
केदारगौळमेलान्ता मेलाः पंचदश स्मृताः ॥
एतदेवाभिप्रेत्याथ कथितं शार्ङ्गसूरिणा ।
अल्पप्रयोगः सर्वत्र काकली चांतरस्वरः ॥

Linked texts (1)