Pramāṇa · Search · About · API

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c14.15

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c14.15

Language
English

c14.15

तत्र श्रीरागमेलोऽथ शुद्धनाट्याश्च मेलकः ।
ततो मालवगौलस्य वेलावल्याश्च मेलकः ॥
वराळीमेलरामक्रीरागमेलौ ततः परम् ।
शंकरा भरणाख्यस्य मेलः स्यात्तदनन्तरम् ॥
कांभोजीरागमेलः स्याद्भैरव्या मेलकस्ततः ।
मुखारीमेलको वेगवाहिन्याश्चैव मेलकः ॥
सिंधुरामक्रियामेलो हेजिन्जीमेलकस्ततः ।
मेलः सामवराळ्याख्यरागस्यातः परं मतः ॥
वसंतभैरवीमेलो भिन्नषड्जस्य मेलकः ।
देशाक्षीरागमेलोऽथ छायानाटस्य मेलकः ॥
सारंगरागमेलश्च तोडीमेलस्ततः परम् ।
कल्याणीरागमेलश्चेत्येकविंशतिरीरिताः ॥

Linked texts (1)