Pramāṇa · Search · About · API

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c8.s1.17

A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c8.s1.17

Language
English

c8.s1.17

रागिनिवेशनं यस्या क्रमशः प्रतिपद्यते ।
अनुमंद्रस्तथा शुद्धो रिःस्याद्यथा तथा ॥

निवेष्या प्रथमा सारी, तथा तन्त्रा द्वितीया ।
शुद्धगंधारमिश्रार्थ, तथा तन्त्रा तृतीया ॥

साधारणस्यगंधारमिष्टये क्रमशःस्ततः ।
स्याच्छन्यैव तुर्यापि च्युतमध्यमहेतवे ॥

शुद्धमध्यममिश्रार्थ सारिका पंचमी तथा ।
तन्त्रा तदा पुनः षष्ठा पतपंचमसिद्धये ॥

शेषाभि वितन्त्रामिश्रितसारिषु ये स्वराः ।
वर्ण्यते ते क्रमेणैव गुरुणा मे यथादिताः ॥

पंचमेनानुमंद्रेण या तन्त्री समुपोषिता ।
तया द्वितीयया तन्त्रा जायते शुद्धधैवतः ॥

ततः शुद्धनिषादाख्यो निषादः कैशिकी पुनः ।
तत्पस्तात् पतः षड्जः शुद्धषड्जस्ततः परम् ॥

तत्पश्चादपमः शुद्धः षड्जेते मदिताः स्वराः ।
जातौ द्वितीया तन्त्रा विशुद्धौ यौ सगे स्वरौ ॥

स्थाप्यौ नैव प्रयोगे तौ यतस्तन्त्रा तृतीयया ।
जायते तौ पुनर्मन्द्रौ शुद्धौ वीणाविदोदितौ ॥

एतेऽनुमंद्रजाः प्रोक्ताः कंप्यते मंद्रजाः क्रमात् ।
तन्त्रा तृतीयया मंद्रस्तस्य सारीषु तास्वपि ॥

तथैव स्युः क्रमादंते स्वरा जनमनोहराः ।
तत्र तायतया तन्त्रा विशुद्धमध्यमो भवेत् ॥

पतपंचमकः पश्चादप्रयोगौ पुनः स्वरौ ।
संजायते यतस्तन्त्रा चतुर्थ्यामिति निर्णयः ॥

चतुर्थ्यापि पुनस्तन्त्रा मंद्रमध्यमयुक्तया ।
षट्सु तास्वपि सारीषु क्रमशः स्वराः ॥

पतपः प्रथमः शुद्धपंचमस्तदनंतरम् ।
शुद्धोधः शुद्धनिः पश्चान्निषादः कैशिकी ततः ॥

षड्जः पतादिरित्येते प्रोक्ता मन्द्रस्वरा गया ।
पुरोदितासु सारीषु तन्त्रीमिश्र चतुसृभिः ॥

अनुमंद्रास्तथा मंद्राः प्रोद्दिष्टास्ते स्वयं भुवः ।
स्त्रीयकल्पतया प्रोक्ताः प्रामाण्यं तेषु विद्यते ॥