The Hindu Temple v2.c13.s4.3
The Hindu Temple v2.c13.s4.3
- Language
- English
v2.c13.s4.3
समस्तम्भां यत्तु सभासमपि भागभाक् ७ । जन्मोपपीठानुष्ठानस्तम्भप्रस्तरकन्धरैः ॥१२॥ शिखरे ८ स्तूपिकाभ्यां च षड्वर्गैस्सहिलं तु यन् । मानसूत्राद्दिनिर्यात्समसूत्राद्भद्रकम् ॥१३॥ समस्तम्भान्तरस्योर्ध्वप्रस्तरान्तरबन्धनम् । मध्यकर्णमिदं गच्छेत्प्रमाणभवनान्वितम् ॥१४॥ एवमादिविशिष्टाङ्गं विमानं द्राविडं मतम् । युक्तद्राविडविन्यासनागरक्रिययाऽन्वितम् ॥१५॥ नागरं धामिदोदिष्ट ९ विशेषेण विभूषितम् । सखण्डखण्डहर्म्यं तु कण्ठमायोभयात्मकः १० ॥१६॥ उत्तरोत्तरतो व्यूह्युक्कान्तरतलक्रिया । एवमादिविचिताङ्गं विमानं नाम वेसरम् ॥१७॥ मूळादूर्ध्वंस्तन्धेयं तदुपर्यस्ततां मा(ग)तम् । तदुपर्युत्थितग्रीवशिखास्तूपिकान्विता ॥१८॥ भद्रोपभद्रचित्राङ्गस्तम्भान्तरतलक्रियाम् । साधारणतला सप्तकाथ स्तम्भनिवेशनाम् ॥१९॥ श्रोण्याकारकियोपेतच्छायाप्रस्तरबन्धनम् । एवमाङ्गवैचित्र्यं वराटं धाम सम्मतम् ॥२०॥ विनां धारितयो ११ रस्य पताका बाह्यमण्डनम् । उत्तराधा १२ लुपारोहक्रियां धारिकान्वितम् ॥२१॥ उन्नता वा न तस्याङ्गैः सर्वाङ्गैः परिमण्डलम् । चतुराष्टवृत्ताभग्रीवाशिखरसौरभम् ॥२२॥