Pramāṇa · Search · About · API

The Hindu Temple v2.c13.s4.2

The Hindu Temple v2.c13.s4.2

Language
English

v2.c13.s4.2

नागरादिप्रभेदं तु प्रवक्ष्यामि विशेषतः । विन्ध्यान्तं चैव कृष्णान्तं कन्यान्तं तु हिमाचलात् ॥१॥ तस्मात्तस्मात्क्रियाधात्रीयुक्तसत्त्वतमोरजाः । नागरं द्राविडं चैव वेसरं सार्वदेशिकम् ॥२॥ कालिङ्गं च वराटं च षड्विधं त्विह कीर्त्तितम् । नागरं सात्त्विको १ क्षेत्रे वेसरं स्यात्तमोधिके ॥३॥ राजसे द्राविडं चैव सर्वदेश्यं सर्वत्र सम्मतम् । कालिङ्गं च वराटं च ग्राह्यं सत्त्वरजोधिके ॥४॥ कुलं मसूरकं २ जङ्घा कपोतं शिखरं गलम् । ऊर्ध्वंन्दामलसारेणाष्टवर्गः कुम्भस्तथायुक् ॥५॥ अन्यैः परिनिक्षिप्तं प्रोक्तवर्गाष्टकं तु यत् । अन्यैः प्रतीरयैः ३ कोणैरन्योन्याधिकभद्रजैः ॥६॥ त्रिभिर्वा पञ्चभिर्वागैर्नवैर्वाथ सप्तभिः । साष्टा नवभिर्वाथैर्युक्ते वा दवकस्तकैः ४ ॥७॥ स्वच्छन्दाङ्गं विचित्राङ्गं सन्तारः प्रस्तरः कियान् । ऊहप्रत्यूहसंयुक्तं रेजातीशांशमुण्डयुक् ५ ॥८॥ सकर्माकर्मजं यं तु मण्डनानलसारकम् ६ । शुकनासिका युक्तं पाश्वेयोः प्रमुखे मुखे ॥९॥ कुण्डमण्डपसंयुक्तमङ्गवृत्त्यङ्गकल्पितम् । यथाशक्ति यथाशोभं विधातव्यं हि नागरम् ॥१०॥ हो [दो] रभ्यन्तरस्तम्भभित्तितुल्यसमन्वितम् । प्रकृत्यपरजं मूर्ध्नि सोपपीठमसूरकम् ॥११॥