Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.73

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.73

Language
English

v1.c63.s2.73

आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ।
गृहमानवशात् सम्यक् कर्तुंः स्थानबलाबलम् ॥
नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ।
तदलाभे करैः कार्यं सम्यगायविशुद्धये ॥
यत्र हस्तैर्मितिः क्षेत्रे तत्रायो हस्तसंश्रितः ।
क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिवाङ्गुलैः (?) ॥
अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ।
पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः ॥
गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ।
देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् ॥
दैर्घ्यं हन्यात् पृथुत्वेन हरेद् भागं ततोऽष्टभिः ।
यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् ॥
ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ।
ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् ॥
अन्योन्याभिमुखास्त चे कामं स्वच्छन्दचारिणः ।
पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः ॥
वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ।
ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे ॥
कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ।
गजे भद्राणि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम् ॥
वृषस्थाने गजं कुर्यात् सिंहं वृषभहस्तिनोः ।
न कुर्याद् वृषमन्यत्र शस्यते सर्वतो ध्वजः ॥
कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ।
क्षत्रियस्य गजः शस्तो वृषभः शस्यते विशः ॥
शूद्रस्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ।