Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.78

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.78

Language
English

v1.c63.s2.78

आसने देवपीठेसु वस्त्रालङ्कारयोजने ॥
केयूरमुकुटाद्ये च वेशयेच्च ध्वजं शुभम् ।
अग्निकर्मसु सर्वेषु होमशाला महानसे ॥
धूमोऽग्निकुण्डसंस्थाने होमकर्मगृहेऽपि वा ।
आयुधानां समस्तानां नृपाणां भवनेषु च ॥
नृपासने सिंहद्वारे सिंहं तत्र निवेशयेत् ।
श्वानश्च म्लेच्छजातौ च गेहे श्वानोपजीविनाम् ॥
तथा चाशुद्धसंस्थाने प्रशस्तः श्वानको मतः ।
वणिकर्मसु सर्वेषु भोज्यपाशुत्रे मण्डपे ॥
वृषस्तुरङ्गशालायां गोशालायां च गोकुले ।
ततवित्तादिस्वरे वाद्ये त्रिविधे तथा ॥
कुलाल रजकादीनां खरो गर्दभजीविनाम् ।
गजश्च गजशालायां यानझम्पानयो रथे ॥
शय्यायां शिविकायां च गजमुद्रा चतुष्कतः ।
अन्तःपुरे गृहे प्रोक्तः पिण्डवास्त्यादिकोद्भवः ? ॥
अन्योपस्करकादौ च मदनागारके गजः ।
तथाऽरहट्टयन्त्रेषु जिनशालादिकेषु च ॥
ध्वाङ्क्षः कल्याणकृच्चैवं शिल्पकर्मोपजीविनाम् ।
स्वके स्वके वै स्थाने च सर्वे कल्याणकारकाः ॥
मित्रस्नेहानुगाश्चैव ते सर्वे हितकामदाः ।
वृषस्थाने गजं दद्यात् सिंहं वृषभहस्तिनोः ॥
ध्वजः सर्वेषुदातव्यो नृपो नान्यत्र दीयते ।
गजाभिदृष्टिः सिंहः स्याद् वारुणाभिमुखो ध्वजः ॥
वृषभः प्राच्यभिमुखो गजो याम्यमुखस्तथा ।
सन्मुखा याम्योत्तराश्च प्रशस्ताः पृष्ठतोमुखाः ॥
स्वके स्वके वै स्थाने च प्रशस्ताश्च त्रिदिक्षु च ।
ध्वजः पुरुषरूपश्च सिंहः सिंहस्वरूपकः ॥
वृषो वृषभरूपाढ्यो गजो हस्तिस्वरूपकः ।
धूमो मार्जाररूपाढ्यो श्वानः श्वानाधिरूपकः ॥
खरो गर्दभरूपाढ्यो ध्वाङ्क्षः काकस्वरूपकः ।
सर्वे च वृषभारूढाः पुरुषाकारमुद्गलाः ? ॥
तद्रूपाकारच हस्ताभ्यां पादाभ्यां विहगानुगाः ।
ग्रीवया सिंह shape(सिंह)रूपारच प्रबलाश्च महोत्कटाः ॥
महागगणेश्वराः प्रोक्ता अष्टदिक्क्षेत्रपालकाः ।
वास्तुकर्मसु सर्वेषु आया दिक्पतयोऽष्ट हि ॥