Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.77

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.77

Language
English

v1.c63.s2.77

आयव्ययांशका ऋक्षं ताराचन्द्रबलं गृहे ।
जीवितं मरणं ज्ञेयं वास्तुविज्ञानपूर्वकम् ॥
नगरे वा पुरे चैव मानं दण्डैर्विधीयते ।
वास्तुदण्ड इति प्रोक्तः सोऽत्र वै हस्तसङ्ख्यया ॥
चतुर्हस्तं च यत्क्षेत्रमङ्गुलैश्च फलप्रदम् ।
वस्वङ्गुलैश्च क्षेत्रं तु पादैर्वा प्रतिशोधयेत् ॥
तत्क्षेत्रं तु यथाकारमश्मकार्यं विशोधयेत् ।
यत्र हस्तमितिः क्षेत्रे तद्गृहं हस्तसङ्ख्यया ॥
क्षेत्रालाभे तु तत्रैव स्यात्स्वदेहाङ्गुलैर्गृहम् ।
अङ्गुलैः क्षेत्रमाने च अङ्गुलैस्तदलाभतः ॥
पादैर्वापि यवैर्वापि गृहक्षेत्रानुसारतः ।
तृणच्छन्दे स्वामिहस्तैर्हर्म्यादौ कर्मिहस्ततः ॥
राजवेश्मपुरादीनां वापीकूपादिकस्य च ।
प्रासादेषु च देवानां शास्त्रहस्तेन केवलम् ॥
दैर्घ्यं हन्यात्पृथुत्वेन हरेद्भागं ततोऽष्टभिः ।
शेषमायं चैव विद्याच्छास्त्रदृष्टं ध्वजादिकम् ॥
ध्वजो धूम्रश्च सिंहश्च श्वानो वृषखरौ गजः ।
ध्वाङ्क्षरचेति समुद्दिष्टाः प्राच्यादिषु प्रदक्षिणाः ॥
अन्योऽन्याभिमुखास्ते च क्रमच्छन्दानुसारतः ।
पूर्वे चये समुद्दिष्टा आयुर्वृद्धिविधायकाः ॥
ध्वजः सिंहो वृषगजौ शस्यन्ते सुरवेश्मनि ।
अधमानां खरध्वाङ्क्षधूम्रश्वानः सुखावहाः ॥
ध्वजः प्रायः कृतयुगे त्रेतायां सिंह एव च ।
द्वापरे वृपबाहुल्यं गज एव कलौ युगे ॥
कल्याणं कुरुते सिंहो नृपाणां च विशेषतः ।
ध्वजः प्रशस्यते विप्रे वृषो वैश्ये तथोदितः ॥
उत्तरोत्तरमाख्याताश्चतुर्वर्णफलप्रदाः ।
ध्वजे चैवार्थलाभः स्याद् धूम्रे संताप एव च ॥
सिंहे च विपुला भोगाः कलिः श्वाने सदा भवेत् ।
धनधान्यं वृषे चैव स्त्रीदूषणं च रासभे ॥
गजे भद्राणि पश्यन्ति ध्वाङ्क्षे च मरणं ध्रुवम् ।
प्रासादप्रतिमालिङ्गजगतीपीठमण्डपे ॥
वेदीकुण्डशुचिष्वेवं पताकाछत्रचामरे ।
वापीकूपतडागानां कुण्डानां च जलाशये ॥
ध्वजोच्छ्रयस्य संस्थाने ध्वजं तत्र निवेशयेत् ।