Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.82
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.82
- Language
- English
v1.c63.s2.82
तत्क्षेत्रस्य फलं साध्यं गुणितं दैर्घ्यविस्तरैः ॥ फले चाष्टगुणे तस्मिन् सप्तविंशतिभाजिते । यच्छेषं लभ्यते तत्र नक्षत्रं तद्गृहस्य च ॥ देवनृराक्षसानां च नक्षत्राणां त्रिधा गणः । यस्य यस्यानुगा मैत्री वैरं स्याच्च परस्परम् ॥ स्वगणे परमा .प्रीतिर्मध्यमा दैवमानुषे । मर्त्यराक्षसयोर्मृत्युः कलहो देवरक्षसोः ॥ नव देवगणाः प्रोक्ता मानुषा नव कीर्तिताः । नव रक्षोगणाश्चैव नक्षत्राणां त्रिधा गणः ॥ कृत्तिका मघा विशाखा आश्लेषा शततारका । चित्रायुक्ता घनिष्ठा च ज्येष्ठा मूलं च राक्षसाः ॥ मृगोऽश्विनी रेवती च हस्तः स्वातिः पुनर्वसू । पुष्यानुराधाश्रवणमेते देवगणः स्मृतः ॥