Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.83

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.83

Language
English

v1.c63.s2.83

तित्रः पूर्वाश्च भरणी आर्द्रा वै रोहिणी तथा।
उत्तरात्रयसंयुक्तः कीर्तितो मानुषो गणः॥
अथ राशीः प्रवक्ष्यामि लब्ध्या क्षेत्रफलेषु च।
तदनुक्रमयुक्तीश्च कथये तव साम्प्रतम्॥
गृहक्षेत्रेषु यदृक्षं पञ्चत्रिंशताह्रवम्।
पष्ठिभिश्च हरेद् भागं भुक्तव्यस्तु शेषतः॥
ऋक्षभुक्तिक्रमयुक्ता स्वस्वराशिकसंज्ञिताः।
स्युर्मेषाद्या राशयश्च अश्विन्यादिक्रमेण च॥
वास्तुचक्रादिचक्रेषु ग्रहवेधविशोधनैः।
अष्टाविंशतिरेवं च साभिजित् कृत्तिकादयः॥
चातुर्वर्ण्यप्रशस्तांश्च राशीनथ वदाम्यहम्।
यत्र त्रयस्त्रयः प्रोक्ता विप्रशूद्रान्तमार्गतः॥
वृश्चिकः कर्कटो मीनो ब्राह्मणाः परिकीर्त्तिता।
धनुर्मेषस्तथा सिंहो राजन्याश्च शुभाः स्मृताः॥
वृषः कन्या च मकर एते वैश्या उदाहृताः।
मिथुनं च तुला कुम्भस्त्रयः शूद्राः प्रकीर्तिताः॥
भवेद् द्वादशभिर्विप्रः क्षत्रियो नवभिस्तथा।
षड्राशिभ्यो भवेद् वैश्यस्त्रिभिः शूद्रः प्रशस्यते॥
चातुर्वर्णान्तरभेद एवमुक्तोऽपराजित।
प्रीत्यर्थं च पुनर्भेदं कथये तव साम्प्रतम्॥
षडष्टके ध्रुवं मृत्युः प्रीतिः स्यात् समसप्तमे।
अनिष्टं पञ्चनवमे पुष्टिर्दशचतुर्थके॥
तृतीयेकादशे मैत्री तृतीयद्वादशे रिपुः।
राशयः षड्विधा एवमन्योन्यं पतिवेश्मनोः॥
गृहाग्रे च यदा चन्द्रो क्षयं वेश्म करोति हि।
राष्ट्रचौरारिनिभयं घोरं चन्द्रे वै पृष्ठमागते॥
धनधान्यक्षमSliceारोग्यं कुरुते दक्षिणस्थिते।
श्रीस्त्रीपुत्रा उत्तमाश्च चन्द्रे वै उत्तरे स्थिते॥
सप्तोर्ध्वं स्थापयेद्रेखाः पुनर्भिन्नाश्च सप्तभिः।
रेखाः प्रोक्तानि साभिजिन्नक्षत्राण्यष्टविंशतिः॥
कृत्तिकाद्यशमीशान्यां शेषर्क्षाणि प्रदक्षिणै।
गृहक्षेत्रोक्तमृक्षं च तत्र चन्द्रमुदीरयेत्॥
वेश्मपत्योर्भवेच्चैव गृहमैत्री परस्परम्।
द्वादशोक्ता राशयश्च नवैव च ग्रहास्तथा॥
तथैकराशिकाः केचित् केचिच्चैव द्विराशिकाः।