Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.87

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.87

Language
English

v1.c63.s2.87

स्वर्गादितुल्यभोगाश्च राजांशक उदाहृतः ॥
त्र्यक्षराणि त्रिभेदाश्च त्रिदेवास्त्रिहुताशनाः ।
त्रयः कालास्त्रिसन्ध्याश्च रजःसत्वतमस्त्रयम् ॥
प्रमाणत्रयमेवं च ज्येष्ठमध्याधमैः क्रमात् ।
त्र्यंशकं तु समानीय वास्तुवेदभवं ततः ॥
गणयेत्स्वामिनक्षत्राद्यावद्दृक्षं गृहस्य च ।
नवभिस्तु हरेद् भागं शेषास्ताराः प्रकीर्तिताः ॥
शान्ता मनोहरा क्रूरा विजया कलिका तथा ।
पद्मिनी राक्षसी वीरा ह्यानन्दा नवमी स्मृता ॥
शान्ता शान्तिकरी नित्यं मनोल्हादा मनोहरा ।
क्रूरा प्रवर्जिता प्राज्ञैश्चौराग्न्यादिभयङ्करी ॥
विजया जयकल्याणा कलिका कलहप्रदा ।
पद्माया प्राप्यते सौख्यं महत्तीर्थफलं तथा ॥
राक्षसी च तथा घोरा निशायां भयदायिनी ।
वीरा सौम्या भोगदा च ह्यानन्दानन्दकारिणी ॥
एवं नवविधाकारा निराकारा हि तारकाः ।
क्षीणश्चन्द्रो यदा वारे भवेत्तारा बलप्रदा ॥
क्रूरा च कलिका चैव राक्षसी तु तृतीयका ।
क्रूराद्या इति वै तिस्रो वर्जयेच्छुभकर्मसु ॥
शान्ता मनोहरा चैव विजया पद्मिनी तथा ।
वीरा नन्देति षट्‌तारा नित्यं कल्याणकारिकाः ॥
करराशितोऽत्था ये भागैर्हृष्टं तथोऽष्टभिः ।
आधिपत्यं भवेच्छेषं नाम्ना च सदृशं फलम् ॥
विस्तस्य ? कनकश्चैव धूम्रको विजयः स्वरः ।
त्रिकालविजयौ चैव दन्तः कान्तस्तथा मृगः ॥
विषमश्राया भवेत्सप्त आयहीना व्ययाः शुभाः ।
आधिपत्यं समं शान्तं शुभदं सर्वदा नृणाम् ॥
अष्टभिश्च हते क्षेत्रे फले षष्टिविभाजिते ।
लब्धे दशगुणे जीवो मृत्युर्वै भूतभाजिते ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पञ्च तत्वानि प्रोक्तानि विभक्तानि स्युरन्तके ॥
अप्सु चाद्भिर्भवेन्मृत्युस्तेजस्यग्निवलं भवेत् ।
वायुर्वायुकरो देहे स्वाकाशे शून्यता भवेत् ॥
धनधान्येषु नष्टेषु देहः पतति जर्जरः ।
इत्थं मृत्युः प्रभवति पञ्चतत्वविनाशतः ।