Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.86

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.86

Language
English

v1.c63.s2.86

श्रियानन्दो वृषस्थाने नित्यं श्रीसुखशान्तिदम्।
व्यवहारोपस्करं च गुरुदेवाचने रतिम् ॥
मनोहरः खरे युक्तः सर्वमनोरथप्रदः।
समस्तभोगयुक्तानां तीर्थयात्राप्रकाशकः॥
श्रीवत्सो गजसंस्थाने स्त्रीणां क्रीडास्तनः स्मृतः।
शृङ्गारभोगयुक्तानां बलपुष्टिप्रदायकः॥
विभवो ध्वाङ्क्षसंस्थाने शिल्पिनां हितकामदः।
सूत्रशास्त्रार्थसम्पन्ना भोगशृङ्गारनिश्चलाः॥
सर्वेषु शान्त आयेषु प्रशस्तः सर्वकामदः।
षट्सु सिंहादिषु शुभः पौरो धूमध्वजौ विना॥
ध्वजे धूमे तथा सिंहे प्रद्योतादीन् विवर्जयेत्।
शेषाणां सुप्रशस्ताश्च तथा स्थानेषु पञ्चसु॥
खरे वृषे श्रियानन्दो गजे ध्वाङ्क्षश्च शोभनः।
मनोहरं त्यजेत्सोऽथ खरे ध्वाङ्क्षे गजे शुभः॥
श्रीवत्सश्च गजे ध्वाङ्क्षे विभवो ध्वाङ्क्षके शुभः।
व्ययो न्यूनतरः श्रेष्ठो ह्यधिकश्चैव राक्षसः॥
चिन्तात्मकं व्ययं चापि ह्यायेष्वष्टसु वर्जयेत्।
पिशाचकमायसमं न कुर्याच्छुभकर्मसु॥
शृणु वत्स यथा चांशो वास्तुवेदे त्रिधा स्मृतः।
एकैकक्रमयोगो वै शुभाशुभ उच्यते ॥
यदुक्ता मूलराशौ च ह्यायार्थेषु फलं कृतम्।
तत्र राशौ व्यये मिश्रे गृहनामाक्षराणि च॥
गुणैर्भक्ते व्यये शेषमंशकं त्रिविधं विदुः।
इन्द्रो यमश्च राजा च त्रिभिर्नामभिरंशकाः॥
प्रासादप्रतिमालिङ्गे जगतीपीठमण्डपे।
वेदीकुण्डस्रुचु चैव इन्द्रश्चैव ध्वजादिषु ॥
क्षेत्राद्विसंज्ञा? नागेन्द्रे गणाध्यक्षे च भैरवे।
ग्रहमातृगणे देव्यामादित्ये च यमांशकः॥
पुरप्राकारनगरखेटकूटे च कर्वटे।
हर्म्ये च राजवेश्मादौ शस्तो राजा तथा मतः॥
स्वर्गादिभोगयुक्तानां नृत्यगीतमहोत्सवे।
प्रजावने च पाण्डित्ये इन्द्रांशश्चोत्तमो मतः॥
विविधं च वणिक्कर्म मद्यमांसादिकं तथा।
इत्युक्तं क्रमतश्चेत्थं प्रशस्तं च यमांशके॥
गजाश्वरथक्रीडायां यानजंभानकादिके।