Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.4

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.4

Language
English

v1.c65.4

परीक्षकैश्शास्त्रविद्भिर्नानोपायैः परीक्षिताम् ।
उत्तमां मध्यमां वापि भूमिं प्राप्य बुधोत्तमः ॥
श्वेतमाल्याम्बरधरैः श्वेतगन्धानुलेपनैः ।
भृत्यैराप्तेश्शुद्धवाग्भिस्सलक्षणसमन्वितैः ॥
शुभे मुहूर्ते सल्लग्ने खनित्रादीनथार्चयेत् ।
नवा भूरथवा पूर्वं प्रजाध्युषितभूर्यदि ॥
नरेन्द्रैर्ग्रामनिर्माणकार्यार्थं स्वीकृता भवेत् ।
वास्तुनाथार्चनं शस्तं श्रोत्रियैर्वेदपारगैः ॥
पुण्याहं वाचयेत्पूर्वं विप्रैरागमवेदिभिः ।
प्रोक्षयेत्तज्जतैर्दिव्यैश्शान्तिहोमं च कारयेत् ॥
वास्तुस्वरूपं विज्ञाय हेमगन्धाक्षतादिभिः ।
वास्तुनाथार्चनं कुर्यात्कारयेद्वा द्विजोत्तमैः ॥
भूदेवीमर्चयेत्पश्चाद्गन्धपुष्पाक्षतादिभिः ।
तदनुज्ञां समासाद्य शुभकाले प्रसन्नधीः ॥
भूसमीकरणं कार्यं महोक्षैश्श्वेतवर्णकैः ।
बलिकर्मविधानञ्च राष्ट्रक्षेमकरं भवेत् ॥
ब्राह्मणान्भोजयेत्पश्चात्तोषयेद्दक्षिणादिभिः ॥
समीकृते स्थले पूर्वमैशान्यां खननं शुभम् ।
वारुण्यामथवा कार्यं शुभकाले विशेषतः ॥
इष्टिकान्यसनात्पूर्वं पूरयेद्गर्भमादरात् ।
स च विप्रादिभेदेन चतुर्धा सन्निगद्यते ॥