Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.76
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.76
- Language
- English
v1.c65.76
कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः ।
तद्धारागृहमित्युक्तं धारागारादिनामभृत् ॥
कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः ।
निचिता यस्य भित्तिः स्यात् तद् दर्पणगृहं विदुः ॥
पक्षद्वारं तदत्राहुरन्यन्महाद्वारतोऽपरम् ।
तत् प्राकाराश्रितं द्वारं पुरे तद् गोपुरं विदुः ॥
निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा ।
उपका (र्या ? र्या) इति प्रोक्ताः भौमाश्चाट्टालका मताः ॥
चयप्राकारशालाः स्युः पुरीसंवरणाभिधाः ।
प्राकारादनुपालास्तु प्राकार उपनिष्कला (?) ॥
क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते ।
तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥
क्रीडागृहं यद्यन्त्रोक्तं क्रीडागारं तदुच्यते ।
विहारभूमिश्रीक्रीडाभूमिरित्यभिधीयते ॥
देवधिष्ण्यं सुरस्थानं चैत्यमर्चागृहं च तत् ।
देवतायतनम् प्राहुर्विबुधागारमित्यपि ॥
छन्नं भवेद् यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला ।
गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥