Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.97

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.97

Language
English

v1.c65.97

वाजिनेत्रं भ्रमं घोषं सप्तभद्रायतः परम् ।
भाण्डीरं वैसहं प्रस्थं प्रतानं वासुलं कटम् ॥
लक्ष्मीवासं सुगन्धान्तमष्टधैतानि नामतः ।
अन्यच्च सर्वतोभद्रमेकं भद्राभिरष्टभिः ॥
संप्रकल्प्यं चतुःशालं ब्रूमश्चैषां शुभाशुभम् ।
प्रदक्षिणा शुभा मूषा विपरीता विपर्यये ॥
समवाये यथा भूयो जानीयात् साध्वसाधु च ।
तथाष्टावेकभद्रानि सप्तभद्रानि च क्रमात् ॥
द्विभद्राण्यष्टभिर्युक्ता षड्भद्रानि च विंशतिः।
षट्पञ्चाशत् त्रिभद्रानि पञ्चभद्रानि चोन्नयेत् ॥
सप्ततिश्च चतुर्भद्रार्येभ्येकं भद्राभिरष्टभिः ।
एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥