Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.98

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.98

Language
English

v1.c65.98

भद्रैः पूर्वविधानेन चतुःशालक्रियादिषु ।
मूषा स्यात् कुड्य जैस्तेषु चतुश्शालेषु वेश्मसु ॥
अनुवंश्याश्रिते मूषे स्वस्तिके तत्पराङ्मुखे ।
सुखायते च पुरतो द्वे स्यातामवकोसिमे ॥
नोदङ्मुखः स कर्तव्यः कार्यः प्राग्जीवसंयुतः (?) ।
वर्धमाने तथा का(र्ये?र्यौ) यथा प्राग्ग्रीवसंयुतः ॥
वर्धमाने तथा कार्ये द्वारमूषे सुखायते ।
मूषाया दक्षिणे स्यातां दीर्घवासेऽवकोसिमे ॥
नन्द्यावर्तगृहे सर्वा नन्द्यावर्ता भवन्ति ताः ।
द्वे (स्तरु?म्) पे रुचके स्यातामायते त्ववकोसिमे ॥
सर्वद्वारवहा मूषाः सर्वतोभद्रवेश्मनि ।