Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.83
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.83
- Language
- English
v1.c66.83
समराङ्गण-सूत्रधारात्—
यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना ।
नियम्यास्मिन् नयति यत् तद् यन्त्रमिति स्मृतम् ॥
तस्य बीजं चतुर्धा स्यात् क्षितिरापोऽनलोऽनिलः ।
आश्रयत्वेन चैतेषां वियदप्युपयुज्यते ।
स्वयंवाहकमेकं स्यात् सकृत्प्रेर्यं तथापरम्
अन्यदन्तरितं वाह्यं वाह्यमन्यत् त्वदूरतः ॥
स्वयंवाहकमिहोत्कृष्टं हीनं स्यादितरत् त्रयम् ।
तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ।
पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥
तदैव तेनोजजनितैस्तदेव मरुदुद्भवैः ।
आप्यमाप्यैस्तथा बीजैरानलैरानिलैरपि ॥
वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि ।
मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥
वह्निजातेऽपि बीजं स्यात् सूतः सोपि च वा(न ? नि) ले ।
पार्थिवानां भवेद् बीजमाप्यानामपि वा(रणे ? रुणम्) ॥
इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि ।
कु 'करणसूत्राणि भारगोलकपीडनम् ॥
लम्बनं लम्बकारे च चक्राणि विविधान्यपि ।
अयस्ताम्रं च तारं च त्रपु संविध्यमर्दने ॥
काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते ।
डर्दकः कर्तरी यष्टिश्चक्रं भ्रमरकस्तथा ॥
श्रृङ्कावली च नाराजः स्वबीजान्यौर्वरे विदुः ।
ताप उत्तेजनस्तोभः क्षोभश्च जलसङ्गजः ॥
एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते ।
धारा च जलभारश्च पयसो भ्रमणं तथा ॥
एवमादीनि भूजस्य जलजानि प्रचक्षते ।
यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥
Cites (1)
- Samarāṅgaṇasūtradhāra — Bhoja, Sanskrit