Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.107
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.107
- Language
- English
v2.c83.107
सर्पो भुजङ्गस्त्रिफणी शृङ्गं स्याद्वै गवादिजम् ।
हलं हलाकृतिः कुर्यात् कुन्तं वै पञ्चहस्तकम् ॥
पुस्तकं युग्माताल स्यात् जाप्यमालाक्षसूत्रकम् ।
कमण्डलुश्च पादोनः श्रुग्वै षट्त्रिंशदङ्गुला ॥
पद्मं च पद्मसंकाशं पत्रं मुक्तं च लोलकम् ।
पद्मासनार्धयुग्महस्ता योगमुद्रा तथोच्यते ॥
यद्द्रव्येण कृतं बिम्बं तेनैवायुधमाचरेत् ।
शताङ्गुलायतं चापं नवसप्ताशुगानलैः ॥
मात्रैर्युतं विहीनं वा नवधा धनुषोदयम् ।
पूर्णमुष्टिस्तु नाहःस्यान्मध्यादग्रौ क्रमात् कृशौ ॥
अग्राववर्धाङ्गुलौ व्यासौ वृत्तौ कार्यों गुणाङ्गुलौ ।
चितौ आयत्रिभागैकै बाणनाभिस्तु मूलतः? ॥
चापायामाष्टभागोनं रज्जुदीर्घमुदाहृतम् ।
त्रिवक्रसहितं वाथ बालेन्द्राकारमेव वा ॥
एकविंशाङ्गुलं बाणदीर्घं तद्द्विगुणं तु वा ।
कनिष्ठाङ्गुलिमानेन परिणाहं शरस्य तु ॥
आस्यायामं पञ्चमात्रं तत्तारे चैव तत्समम् ।
आस्यदीर्घसमं पुच्छं पत्रबन्धविचित्रतम् ॥
पत्राणामङ्गुलं व्यासं पृष्ठे ज्यानाभिमाचरेत् ।
पुच्छतारत्रिभागैकं नाम्बगाधं च विस्तृतम् ॥
टङ्कं भान्वङ्गुलायामं कुर्याद् युक्त्या बहिर्मुखम् ।
मृगं बहिर्मुखं वाथ कुर्यादन्तर्मुखं तथा ॥
द्वादशाङ्गुलमायामं तस्योच्चं युक्तितश्चरेत् ।
द्वादशाङ्गुलविस्तारं चक्रं शङ्खं तथैव च ॥
डमरोर्दीर्घविस्तारे बसुपञ्चाङ्गलान्विते ।
मध्यं गुणाङ्गुलं व्यासमायामं चैव तत्समम् ॥
वलयद्वयसंयुक्तं चर्मसूत्रादिसंयुतम् ।
नवाङ्गुलं तु विस्तारं तारादधं त्रिपादकम् ॥
उच्चं कमन्डलोः कुर्याद् यथाकारं तथैव च ।
पद्मं तालसमुच्छ्रयं द्विगुणविस्तारं च षोढा कृते