Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.110

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.110

Language
English

v2.c83.110

देवानां भूपतीनां च मौलिलक्षणमुच्यते ।
जटामौलिकिरीटं च करण्डं च शिरस्त्रकम् ॥
कुन्तलं केशबन्धं च धम्मिलालकचूडकम् ।
मकुटं च(ट) मिति [च] ख्यातं तत्तदाकारमानतः ॥
पत्रपट्टं रत्नपट्टं पुष्पपट्टं त्रिधा मतम् ।
पितामहस्य रुद्रस्य जटामकुटं योग्यकम् ॥
किरीटमकुटं चैव नारायणस्य योग्यकम् ।
कन्यसा देवतानां च करण्डमकुटमन्वितम् ॥
जटामौलि मनोन्मन्या मण्डला(मकुटं)कुण्डलं तथा ।
सरस्वत्याश्च सावित्र्याः केशबन्धं च कुन्तलम् ॥
अथवा सर्वशक्तीनां करण्डमकुटमन्वितम् ।
किरीटं सार्वभौमस्य चाधिराजस्य योग्यकम् ॥
नरेन्द्रस्य करण्डं स्यात्पार्ष्णिकस्य शिरस्त्रकम् ।
चक्रवर्त्यादिभूपस्य करण्डमकुटं तु वा ॥
पत्रपट्टं पट्टधरे रत्नपट्टं च पार्ष्णि के ।
पट्टभाजः पुष्पपट्टं च चोक्तमेवं पुरातनैः ॥
प्राहारकास्त्रग्राहौ च (हयोः) पुष्पमाल्यं प्रकीर्तितम् ।
चक्रवर्तिमहिष्याश्च कुन्तलं मकुटं भवेत् ॥
अधिराजस्य नरेन्द्रस्य महिष्याः केशबन्धनम् ।
पार्ष्णिकपट्टधरयोर्मण्डलेशस्य पट्टभाजः ॥
एतेषां महिषीणां च धम्मिल्लमकुटमाहृतम् ।
प्राहारकास्त्रग्राहाणां महिषीणामलकचूडकम् ॥