Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.111

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.111

Language
English

v2.c83.111

देवानां भूपतीनां च भूषणानां तु लक्षणम् ।
क्रमात्तद्विधिना सम्यक् संक्षेपादृक्ष्यतेऽधुना ॥
पत्रकल्पं चित्रकल्पं रत्नकल्पं च मिश्रितम् ।
एषां च(तच्च)तुर्विधं प्रोक्तं कुर्यादाभरणं बुधः ॥
देवानामपि सर्वेषां कल्पैः (ल्प) सर्वं तु योग्यकम् ।
पत्रकल्पं विना सर्वं सार्वभौमस्य योग्यकम् ॥
रत्नं मिश्रं च योग्यं स्यादधिराजनरेन्द्रयोः ।
अन्येषां भूपतीनां च मिश्रकल्पं च योग्यकम् ॥
पत्रवल्लीर (ल्लीभिर) लङ्कृत्य मत्रकल्पमिति स्मृतम् ।
पुष्पवल्ली च (ल्लीभिश्च) चित्रैश्च सर्वरत्नैरलंकृतम् ॥
एतत्तु चित्रकल्पं तु नाटकाभिरलंकृतम् ।
पुष्परत्नैरलंकृत्य भूषणं रत्नकल्पकम् ॥
पत्ररत्नैश्च संभूष्य मिश्रकल्पमिति स्मृतम् ।