Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.112

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.112

Language
English

v2.c83.112

हारोपग्रीवकेयूरकटकैश्च सुपूरिमम् ॥
बाहुवलयदामं(म)च स्कन्धो(न्ध)मालावसम्बनम्।
प्रकोष्ठे वलयं चैव मणिवन्धकलापकम् ॥
रत्नाङ्गुलीयकैश्चैव विना मध्याङ्गुलीयकम् ।
मध्ये चोदरबन्धं स्यात्तस्योर्ध्वं स्तनसूत्रकम् ॥
यज्ञसूत्रादिपार्श्वेकसूत्रं स्यात्तु स्तनावृतम् ।
पुरसूत्रलम्बनं पूर्वं यज्ञसूत्रं तु बन्धनम् ॥
कटिसूत्रावसानं स्यात्पुरसूत्रमिति स्मृतम् ।
वक्षस्थले च हारं स्यादुपग्रीवहृदयान्तकम् ॥
बाहुमूले तु वलयं दाम कक्षावसानकम् ।
बाहुमा(मू)लावलम्बं स्यात्केयूरकटकान्वितम् ॥
बाह्वायामस्य मध्ये तु केयूरकटकान्वितम् ।
तदूर्ध्वं पूरिमं कुर्यात् कर्णे मकरभूषणम् ॥
कटिसूत्रं तु संयुक्तं कटिप्रस्थ(प्रान्ते)सपट्टिका।
मेढ्रान्तं पट्टिकान्तं स्यात्तन्मध्ये सिंहवक्त्रवत् ॥
अथवा रत्नबन्धं स्यात्स्यादामेढ्रविनिर्गमम् ।
निव्यं(नीलं)च पञ्चपार्श्वे तु मध्ये दामचलान्वितम् ॥
पीताम्बरदुकुलं च नलकान्तप्रलम्बनम् ।
अथवा जानुपर्यन्तं चर्मचीरं च वाससम् ॥
जङ्घादिवलयोपेतं पादजालादिभूषम् ।
विहाय तर्जनीं सर्वैर(वैष्व)ङ्गुलेर(लेष्व)ङ्गुलीयकम् ॥
ऊर्ध्वकाये च हारादि पार्श्वयोर्वाति(तु)लम्बनम् ।
मध्ये दामं(म)च लम्बितं स्याच्छन्नवीरमिति स्मृतम् ॥
इत्युक्तं भूषणं देवेश्च(वानां च)क्रवर्तिन इति स्मृत ।
चक्रव(त्तिन)स्तदा विष्णोर्वैनमाला विभूषणम् ॥
अधिराज नरेन्द्राम्यां(न्द्रयोः)विनासूत्रोपरिस्तनौ ।
अन्येषां सर्वभूपानां केयूरकटकं बिना ॥
सर्वेषामपि देवानां गुल्फस्योपरिदेशके ।
भुजङ्गगकटकोपेतं पादनूपुरसंयुतम् ॥
कर्णं विभूषणं कुर्यान्मकराङ्कितकुण्डलम् ।
अथवा स्वर्णताटङ्को शेषं तु पूर्ववद्भवेत् ॥
अङ्गभूषणमित्युक्तं बहिर्भूषणमुच्यते ।
दीपद्दण्डं व्यजनं च दर्पणञ्चैव लक्षणम् ॥
पर्णमञ्जूषकादीनां दोलाया लक्षणं तथा ।
भूपानां च तुलाभारतुलालक्षणमुच्यते ॥
वत्सराम्भलेखाथं पत्रं च कर्णलक्षणम् ।